2026-05-19 04:09:18 by ambuda-bot
This page has not been fully proofread.
32
देवी स्तोत्राणि
तव विमलेन्दु - कुलं वदनेन्दु-
मलं सकलं ननु कूलयते
किमु पुरुहूत पुरीन्दु-मुखी
सुमुखीभिरसौ विमुखीक्रियते ।
मम तु मतं शिवनामधने
भवती कृपया किमुत क्रियते
जय जय हे महिषासुरमर्दिनि
रम्यकपर्दिनि शैलसुते ॥
अयि मयि दीन - दयालुतया
कृपयैव त्वया भवितव्यमुमे
अयि जगतोजननी कृपयासि
यथासि तथाऽनुभितासिरते ।
यदुचित - मत्र भवत्युररी कुरुतादुरुताप-मपाकुरुते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥।
॥ इति श्री महिषासुरमर्दिनी स्तोत्रम् संपूर्णम् ॥
८. श्री देवी कवचम्
अग्रतस्तेऽम्बिका पातु पार्वती पातु पृष्ठतः ।
वाराही विषमे पातु दुर्गा दुर्गेषु कर्हिचित् ॥
कालिकाकलहे घोरे पातु त्वां परमेश्वरी ।
मण्डपे तत्र मातङ्गी तथा सौम्या स्वयंवरे ॥
भवानी भ्रूमध्ये तु पातु मां भव - मोचिनी ।
गिरिजा गिरिदुर्गेषु चामुण्डा सत्वरेषु च ॥
१९
२०