Proofing

This page has not been fully proofread.

126
 
देवी स्तोत्राणि
 
कोमलश्यामलोदार पक्षद्वयं तुण्ड शोभातिदूरी भवत्
किंशुकं तं शुकं लालयन्ती परिक्रीडसे ! पाणिपद्मद्वयेनाक्ष-
मालामपि स्फाटिकीं ज्ञानसारात्मकं पुस्तकं चाङ्कुशं
 
पाशमाबिभ्रती, येन सञ्चिन्त्यसे तस्य वक्त्रान्तरात् गद्य
पद्यात्मिका भारती निस्सरेत् ! येन वा यावकाभाकृति: भाव्यसे !
तस्य वश्या भवन्ति स्त्रियः पूरुषाः । येन वा शातकुम्भ द्युति:
भाव्यसे । सोऽपि लक्ष्मी सहस्रैः परिक्रीडते । किं न सिद्धयेद्वपुः
श्यामलं कोमलं चन्द्रचूडान्वितं तावकं ध्यायतः । तस्य लीला
सरोवारिधिः, तस्य केलीवनं नन्दनं, तस्यभद्रासनं भूतलं, तस्य
गीर्देवता किङ्करी, तस्य चाज्ञाकरी श्रीः स्वयं ॥ ५ ॥
 
सर्व तीर्थात्मिके ! सर्व मन्त्रात्मिके ! सर्व तन्त्रात्मिके !
सर्व यन्त्रात्मिके ! सर्व पीठात्मिके! सर्व तत्वात्मिके !
सर्वशक्त्यात्मिके ! सर्व विद्यात्मिके ! सर्व योगात्मिके !
सर्व नादात्मिके ! सर्व शब्दात्मिके ! सर्व विश्वात्मिके !
सर्व दीक्षात्मिके ! सर्व सर्वात्मिके ! सर्व मुद्रात्मिके !
सर्व चक्रात्मिके ! सर्व वर्णात्मिके ! सर्वरूपे हे जगन्मातृके
पाहि मां पाहि मां पाहि मां देवी ! तुभ्यं नमो देवि !
 
तुभ्यं नमो देवि तुभ्यं नमः
 
॥ इति श्री कालिदास विरचित श्यामला - दण्डकम् संपूर्णम् ॥
 
॥६॥