2026-05-19 04:09:34 by ambuda-bot
This page has not been fully proofread.
124
देवी स्तोत्राणि
रिङ्खन्नखेन्दूज्वले, प्रोज्ज्वले ! निर्मले ! प्रह्व देवेश लक्ष्मीश भूतेश
दैत्येश यक्षेश वागीश कोणेश तोयेश वाय्वग्नि कोटीर माणिक्य सङ्घष्ट
बालातपोद्दाम लाक्षारसारुण्य तारुण्य लक्ष्मी गृहीताङ्घ्रि पद्मद्वये
अद्वये ! उमे ॥३॥
सुरुचिर नवरत्नपीठस्थिते । सुस्थिते । रत्न सिंहासने रत्न पद्मासने
शङ्ख पद्म द्वयोपाश्रिते ! तत्र विघ्नेश दूर्वावटु क्षेत्रपालैर्युते !
मत्तमातङ्ग कन्या समूहान्विते, मञ्जुला मेनकाद्यङ्गना मानिते !
भैरवैः अष्ट भिर्वेष्टिते!
देविवामादिभिः संश्रिते, शक्तिभिः सेविते !
धात्रि लक्ष्म्यादि शक्त्यष्टकैः सम्युते ! मातृका मण्डलैर्मण्डिते !
भैरवीसंवृते यक्ष गन्धर्व सिद्धाङ्गना मण्डलैरर्चिते ! पञ्च-
बाणात्मिके पञ्चबाणेन रत्या च सम्भाविते ! प्रीतिशक्त्या च भाजा
वसन्तेन चानन्दिते ! भक्ति भाजां परं श्रेयसे ! कल्पसे योगिनां
मानसे, द्योतसेच्छन्द सामोजसा भ्राजसे! गीत विद्या विनोदाति
तृष्णेन कृष्णेन सम्पूज्यसे ! भक्तिमत् चेतसा वेधसा स्तूयसे !
विश्वहृद्येन गद्येन पद्येन वाद्येन विद्याधरैर्गीयसे
॥४॥
श्रवण हरण दक्षिण क्वाणया वीणया किन्नरैर्गीयसे ! यक्ष गन्धर्व
सिद्धाङ्गना मण्डलैरर्च्यसे ! सर्व सौभाग्य वाञ्छावतीभिः वधूभिः
सुराणां समाराध्यसे ! सर्व विद्या विशेषान्वितं चाटुगाथा समुच्चाटणं
कण्ठ मूलोल्लसत् वर्णराजित्रये !