Proofing

This page has not been fully proofread.

116
 
देवी स्तोत्राणि
 
सर्वज्ञाने सदानन्दे सर्वरूपे नमो नमः ।
सम्पन्नायै कुमार्यै च सर्वज्ञे ते नमो नमः ॥
योगानार्य उमादेव्यै योगानन्दे नमो नमः ।
दिव्यज्ञान-त्रिनेत्रायै दिव्यमूर्त्यै नमो नमः ॥
अर्धचन्द्रजटाधारि चन्द्रबिम्बे नमो नमः ।
चन्द्रादित्य जटाधारि चन्द्रबिम्बे नमो नमः ॥
अणुरूपे महारूपे विश्वरूपे नमो नमः ।
 
अणिमाद्यष्ट-सिद्ध्यै च आनन्दायै नमो नमः ॥
 
१२
 
१३
 
१४
 
१५
 
ज्ञानविज्ञान - रूपायै ज्ञानमूर्त्यै नमो नमः ।
नानाशास्त्र स्वरूपायै नानारूपे नमो नमः ॥
 
१६
 
पद्मजा पद्मवंशा च पद्मरूपे नमो नमः ।
परमेष्ठ्यै परामूर्त्यै नमस्ते पापनाशिनी ॥
 
महादेव्यै महाकाल्यै महालक्ष्म्यै नमो नमः ।
ब्रह्मविष्णु शिवायै च ब्रह्मनार्यै नमो नमः ॥
 
कमलाकर पुष्पा च कामरूपे नमो नमः ।
 
कपालि करदीप्तायै कर्मदायै नमो नमः ॥
 
सायं प्रातः पठेन्नित्यं षाण्मासात्सिद्धि-रुच्यते ।
घोर व्याघ्र भयं नास्ति पठतां शृण्वतामपि ।
इत्थं सरस्वती - स्तोत्रं अगस्त्य मुनिवाचकम् ।
सर्वसिद्धिकरं नृणां सर्वपाप प्रणाशनम् ॥
 
॥ इति श्री सरस्वती स्तोत्रम् संपूर्णम् ॥
 
१७
 
१८
 
१९
 
२०
 
२१