2026-05-19 04:09:30 by ambuda-bot
This page has not been fully proofread.
106
देवी स्तोत्राणि
भास्करीं बिल्वनिलयां वरारोहां यशस्विनीम् ।
वसुन्धरां उदाराङ्गां हरिणीं हेममालिनीम् ॥
धनधान्यकरीं सिद्धिं स्त्रैणसौम्यां शुभप्रदाम् ।
नृपवेश्मगतानन्दां वरलक्ष्मीं वसुप्रदाम् ॥
शुभां हिरण्यप्राकारां समुद्रतनयां जयाम् ।
१९
२०
नमामि मङ्गलां देवीं विष्णुवक्षस्थलस्थिताम् ॥
२१
विष्णुपत्नीं प्रसन्नाक्षीं नारायणसमाश्रिताम् ।
दारिद्र्यध्वंसिनीं देवीं सर्वोपद्रव - वारिणीम् ॥
२२
नवदुर्गां महकालीं ब्रह्माविष्णु-शिवात्मिकाम् ।
त्रिकालज्ञानसंपन्नां नमामि भुवनेश्वरीम् ॥
२३
लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीं ।
दासीभूत - समस्त - देववनितां लोकैकदीपाङ्कराम् ।
श्रीमन्मन्दकटाक्षलब्धविभवब्रह्मेन्द्रगङ्गाधरां ।
त्वां त्रैलोक्यकुटुंबिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥
मातर्नमामि कमले कमलायताक्षि
श्रीविष्णुहृत्कमलवासिनि विश्वमातः ।
क्षीरोदजे कमलकोमलगर्भगौरि
लक्ष्मी प्रसीद सततं नमतां शरण्ये ॥
२४
२५