Proofing

This page has not been fully proofread.


 
102
 
देवी स्तोत्राणि
 
दुर्लभं सर्वदेवानां चतुष्षष्टिकलास्पदम् ।
पद्मादीनां वरान्तानां च निधीनां नित्यदायकम् ॥
समस्तदेवसंसेव्यमणिमाद्यष्टसिद्धिदम् ।
किमत्र बहुनोक्तेन देवी प्रत्यक्षदायकम् ॥
तव प्रीत्याऽद्य वक्ष्यामि समाहितमनाश्शृणु ।
अष्टोत्तरशतस्यास्य महालक्ष्मीस्तु देवता ॥
क्लीं बीजपदमित्युक्तं शक्तिस्तु भुवनेश्वरी ।
अङ्गन्यासः करन्यासः स इत्यादि प्रकीर्तितः ॥
ध्यानम्
 
वन्दे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां
हस्ताभ्यां अभयप्रदां मणिगणैः नानाविधैः भूषिताम् ।
भक्ताभीष्टफलप्रदां हरिहर - ब्रह्मादिभिः सेवितां
पार्श्वे पङ्कजशङ्खपद्म-निधिभिर्युक्तां सदा शक्तिभिः ॥
 
सरसिजनयने सरोजहस्ते
 
धवलतरांशुकगन्धमाल्यशोभे ।
 
भगवति हरिवल्लभे मनोज्ञे
 
त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥
 
प्रकृतिं विकृतिं विद्यां सर्वभूतहितप्रदाम् ।
श्रद्धां विभूतिं सुरभिं नमामि परमात्मिकाम् ।
 
9
 

 
१०