2026-05-19 04:09:29 by ambuda-bot
This page has not been fully proofread.
98
देवी स्तोत्राणि
वेदपुराणेतिहास सुपूजित
वैदिकमार्ग प्रदर्शयुते
जय जय हे मधुसूदन कामिनि
श्रीधनलक्ष्मि जय पालय माम् ॥
॥ इति श्री अष्टलक्ष्मी स्तोत्रम् संपूर्णम् ॥
१९. श्री महालक्ष्मी अष्टकम्
नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते ।
शङ्ख-चक्र-गदाहस्ते महालक्ष्मि नमोऽस्तु ते ॥
नमस्ते गरुडारूढे कोलासुर भयङ्करि ।
सर्वपापहरे देवि महालक्ष्मि नमोऽस्तु ते ॥
सर्वज्ञे सर्ववरदे सर्वदुष्ट भयङ्करि ।
सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तु ते ॥
सिद्धि - बुद्धि- प्रदे देवि भुक्ति-मुक्तिप्रदायिनि ।
मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तु ते ॥
आद्यन्तरहिते देवि आदिशक्ति महेश्वरि ।
योगज्ञे योगसम्भूते महालक्ष्मि नमोऽस्तु ते ।
स्थूल सूक्ष्म - महारौद्रे महाशक्ति- महोदरे ।
महापापहरे देवि महालक्ष्मि नमोऽस्तु ते ॥
पद्मासन-स्थिते देवि परब्रह्म-स्वरूपिणि ।
परमेशि जगन्मातः महालक्ष्मि नमोऽस्तु ते ॥
१
२
३
४
६