2023-06-04 13:49:37 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
चिदप्यनुष्ठीयमानाभ्यां नार्थकामाभ्यां बाध्यते । बाधितोऽपि
चाल्पायासप्रतिसमाहितस्तमपि दोषं निर्हृत्य श्रेयसेऽनल्पाय
कल्पते । तथा हि पितामहस्य तिलोत्तमाभिलाषः, भवानीपतेर्मुनि-
पत्नीसहस्रसंदूषणम्, पद्मनाभस्य षोडशसहस्रान्तःपुरविहारः,
प्रजापतेः स्वदुहितर्यपि प्रणयप्रवृत्तिः, शचीपतेरहल्याजारता,
शशाङ्कस्य गुरुतल्पगमनम्, अंशुमालिनो वडवालङ्घनम्, अनि-
लस्य केसरिकलत्रसमागमः, बृहस्पतेरुतथ्यभार्याभिसरणम्,
पराशरस्य दाशकन्यादूषणम्, पाराशर्यस्य भ्रातृदारसंगतिः, अत्रे-
र्मृगीसमागम इति । अमराणां च तेषु तेषु कार्येष्वासुरविप्रलम्भ-
नानि ज्ञानबलान्न धर्मपीडामावहन्ति । धर्मपूते च मनसि नभ-
पदचन्द्रिका ।
भवतीत्यर्थः । 'यती प्रयत्ने' । उपसर्गादन्योऽर्थः । तत्त्वदर्शनेनोपबृंहितो वर्धितो धर्मोऽर्थकामाभ्यां न बाध्यते । बाधितोऽपि धर्मोऽल्पायासेनाल्पप्रयत्नेन प्रतिसमाहितः समाधानं प्रापितः । श्रेयसे मोक्षाय । तथा हीति । तिलोत्तमा अप्सरोविशेषः । संदूषणं गमनम् । प्रणयेन प्रीत्या । प्रवृत्तिः प्रवर्तनम् । अहल्या गौतमपत्नी । गुरुतल्पं बृहस्पतिभार्या । 'तल्पं शय्याट्टदारेषु' इत्यमरः । वडवाश्विनी । अनिलस्य वायोः । 'कलत्रं श्रोणिभार्ययोः' इत्यमरः । अंशुमाली सूर्यः । केसरी वानरमेदः । उतथ्यो बृहस्पतेर्ज्येष्ठभ्राता । अभिसरणं गमनम् । पराशरस्य व्यास-
पितुः । दाशः कैवर्तः । 'कैवर्ते दाशधीवरौ' इत्यमरः । तत्कन्या योजनगन्धा तद्दूषणं तद्गमनम् । पाराशर्यस्य भ्राता विचित्रवीर्यः । आसुरविप्रलम्भनान्यकृत्याचरणानि । 'अकृत्याचरणं यत्तदासुरं विप्रलम्भनम्' इत्यजयः । ज्ञानबलात्तत्प्राबल्यात् । धर्मपूते धर्मपवित्रे । यथा नभसि रजो नानुषक्तं भवति तथेत्यर्थः ।
भूषणा ।
'तल्पं शय्याट्टदारेषु' इत्यमरः । अभिसरणमभिसृतिः । दाशः कैवर्तः । 'कैवर्ते दाशधीवरौ' इत्यमरः ।आसुरविप्रलम्भनान्यकृत्याचरणानि । 'अकृत्याचरणं यत्तदा-
सुरं विप्रलम्भनम्' इत्यजयः । नभसीवेति । अमूर्तत्वान्नभसो न तत्र रजोनुषङ्ग इति भावः । मूर्तत्वेनान्यत्र वर्णनं तु बालव्यवहारसिद्धत्वेन । संधिः शत्रुमेलनम् ।
लघुदीपिका ।
धानमात्रं बुद्धेरैकाग्र्यमात्रम् । 'आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च' । नात्यायतते 'यती प्रयत्ने' । गुरुतल्पं बृहस्पतिभार्या । 'तल्पं शय्याट्टजायासु' इति वैजयन्ती । अभिसरणमभिगमनम् । दाशः । 'कैवर्ते दाशधीवरौ । आसुरविप्रलम्भनान्यकृत्याचरणानि । 'अकृत्याचरणं यत्तदासुरं विप्रलम्भ-