This page has not been fully proofread.

उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् ।
 
८७
 
चिप्यनुष्ठीयमानाभ्यां नार्थकामाभ्यां बाध्यते । बाधितोऽपि
चाल्पायासप्रतिसमाहितस्तमपि दोषं निर्हत्य श्रेयसेऽनल्पाय
कल्पते । तथा हि पितामहस्य तिलोत्तमाभिलाषः, भवानीपतेर्मुनि-
पत्नीसहस्रसंदूषणम्, पद्मनाभस्य षोडशसहस्रान्तः पुरविहारः,
प्रजापतेः स्वदुहितर्यपि प्रणयप्रवृत्तिः, शचीपतेरहल्याजारता,
शशाङ्कस्य गुरुतल्पगमनम्, अंशुमालिनो वडवालङ्घनम्, अनि-
केसरिकलत्रसमागमः, बृहस्पतेरुतथ्यभार्याभिसरणम्,
पराशरस्य दाशकन्यादूषणम्, पाराशर्यस्य भ्रातृदारसंगतिः, अत्रे-
मृगीसमागम इति । अमराणां च तेषु तेषु कार्येष्वासुरविप्रलम्भ-
नानि ज्ञानबलान्न धर्मपीडामावहन्ति । धर्मपूते च मनसि नभ-
पदचन्द्रिका ।
 
भवतीत्यर्थः । 'यती प्रयत्ने' । उपसर्गादन्योऽर्थः । तत्त्वदर्शनेनोपबृंहितो वधिंतो
धर्मोऽर्थकामाभ्यां न बाध्यते । बाधितोऽपि धर्मोऽल्पायासेनाल्पप्रयत्नेन प्रतिस-
माहितः समाधानं प्रापितः । श्रेयसे मोक्षाय । तथा हीति । तिलोत्तमा अप्सरो-
विशेषः । संदूषणं गमनम् । प्रणयेन प्रीत्या । प्रवृत्तिः प्रवर्तनम् । अहल्या गौतम-

 
1
 
पत्नी । गुरुतल्पं बृहस्पतिभार्या । 'तल्पं शय्याट्टदारेषु' इत्यमरः । वडवाश्विनी ।
अनिलस्य वायोः । 'कलत्रं श्रोणिभार्ययोः' इत्यमरः । अंशुमाली सूर्यः । केसरी
वानरमेदः । उतथ्यो बृहस्पतेर्ज्येष्ठ भ्राता । अभिसरणं गमनम् । पराशरस्य व्यास-
पितुः । दाशः कैवर्तः । 'कैवर्ते दाशधीवरौ' इत्यमरः । तत्कन्या योजनगन्धा
तहूषणं तद्गमनम् । पाराशर्यस्य आता विचित्रवीर्यः । आसुरविप्रलम्भनान्यकृत्या-
चरणानि । 'अकृत्याचरणं यत्तदासुरं विप्रलम्भनम्' इत्यजयः । ज्ञानबलात्तत्प्रा-
बल्यात् । धर्मपूते धर्मपवित्रे । यथा नभसि रजो नानुषक्तं भवति तथेत्यर्थः ।
 
भूषणा ।
 
'तल्पं शय्याट्टदारेषु' इत्यमरः । अभिसरणमभिसृतिः । दाशः कैवर्तः । 'कैवर्ते
दाशधीवरौ' इत्यमरः । आसुरविप्रलम्भनान्यकृत्याचरणानि । 'अकृत्याचरणं यत्तदा-
सुरं विप्रलम्भनम् इत्यजयः । नभसीवेति । अमूर्तत्वान्नभसो न तत्र रजोनुषङ्ग
इति भावः । मूर्तलेनान्यत्र वर्णनं तु बालव्यवहारसिद्धत्वेन । संधिः शत्रुमेलनम् ।
लघुदीपिका ।
 
धानमात्रं बुद्धेरैकाम्यमात्रम् । 'आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म
च' । नात्यायतते 'यती प्रयत्ने' । गुरुतल्पं बृहस्पतिभार्या । 'तल्पं शय्याट्ट
जायासु' इति वैजयन्ती । अभिसरणमभिगमनम् । दाशः । 'कैवर्ते दाशधीवरौ ।
आसुरविप्रलम्भनान्यकृत्याचरणानि । 'अकृत्याचरणं यत्तदासुरं विप्रलम्भ-