2023-06-04 13:40:03 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

हारकर्मभि: कामशासनार्थे च गन्धमाल्यधूपदीपनृत्यगीतवाद्या-
दिभिः क्रियाभिरेकान्ते च त्रिवर्गसंबन्धिनीभिः कथाभिरध्यात्म-
वादैश्चानुरूपैरल्पीयसैव कालेनान्वरञ्जयत् । एकदा च रहसि
रक्तं तमुपलक्ष्य 'मूढः खलु लोको यत्सह धर्मेणार्थकामावपि
गणयति' इति किंचिदस्मयत । 'कथय वासु, केनांशेनार्थकामा-
तिशायी धर्मस्तवाभिप्रेतः' इति प्रेरिता मरीचिना लज्जामन्थर-
मारभताभिधातुम् - 'इतः किल जनाद्भगवतस्त्रिवर्गबलाबल-
ज्ञानम् । अथवैतदपि प्रकारान्तरं दासजनानुग्रहस्य । भवतु,
श्रूयताम् । ननु धर्मादृतेऽर्थकामयोरनुत्पत्तिरेव । तदनपेक्ष एव
धर्मो निवृत्तिसुखप्रसूतिहेतु [^१]रात्मसमाधानमात्रसाध्यञ्च । सोऽर्थकामवद्बाह्यसाधनेषु नात्यायतते । तत्त्वदर्शनोपबृंहितश्च यथाकथं-
 
पदचन्द्रिका ।
 
'बलि: पूजोपहार: स्यात्' इत्यमरः । कामशासनो महादेवस्तदर्थे तन्निमित्तम् । त्रिवर्गो धर्मार्थकामाः । अध्यात्मवादैरात्मानमधिकृत्य ये वादास्तत्त्वबुभुत्सुकथाः । अल्पीयसैवाल्पे । अन्वरञ्जयत् । अनुरञ्जयामासेत्यर्थः । एकदेति । रहस्येकान्ते । रक्तमनुरक्तम् । किंचिदल्पम् । अस्मयत । कथयेति । वासु बाले । 'अथ बाला
स्याद्वासूः' इत्यमरः । 'अम्बार्थनद्योर्ह्रस्व:' (७।३।१०७) इति संबुद्धौ ह्रस्वता । अर्थकामावतिशेते अतिक्रम्य वर्तत इति तथा । अभिप्रेतः संमतः । इतो जनान्मल्लक्षणात् । तदनपेक्ष एकार्थकामनिरपेक्ष एव । स्वतन्त्र एवेत्यर्थः । निवृत्तिसुखं मोक्षसुखं तदुद्भवहेतुः । आत्मसमाधानं बुद्धेरेकाग्रतामात्रम् । 'आत्मा यत्नो धृतिर्बुद्धिः
स्वभावो ब्रह्म वर्ष्म च' इत्यमरादयः । स धर्मः । नात्यायतते नात्यन्तमधीनो
 
भूषणा ।
 
पूजोपहार: स्यात्' । उपहारकर्म 'सांझी' इति भाषायाम् । कामशासनार्थे च कामोद्दीपनार्थे च लज्जामन्थरं व्रीडाशृङ्गारव्यभिचारिभावः । त्रिवर्गो धर्मार्थकामाः । 'त्रिवर्गो धर्मकामार्थैः' इत्यमरः । अध्यात्मवादैर्ब्रह्मतत्त्वचिन्तनैः । धर्मा-
दृत इति । तथा च व्यासः- 'धर्मादर्थश्च कामश्च' इति । तदनपेक्षोऽर्थकामानपेक्षः।निवृत्तिसुखप्रसूतिहेतुरक्षयसुखप्रसूतिहेतुः । ब्रह्मानन्दहेतुरिति यावत् । 'निवृत्तिस्तु सुखे व्याजे अभये अक्षयेऽपि च ' (?) इति धरणिः । आत्मनः समाधानबुद्धेरैकाग्र्यम् । 'आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च' इति धरणिः । बाह्यसाधनेषु लोकव्यवहारेषु । नात्यायतते । 'यती प्रयत्ने' । गुरुतल्पं बृहस्पतिभार्या ।
 
लघुदीपिका ।
 
'त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः समोक्षकैः' ।अध्यात्मवादैर्मोक्षोपायविचक्षणैः । प्रकारान्तरं प्रकारभेदः । निवृत्तिसुखप्रसूतिहेतुर्मोक्षसुखोद्भवहेतुः । आत्मसमा-
 
[^१]G. 'आत्मनः समाधान'