2023-06-04 13:35:59 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

८६
 
दशकुमारचरितम् ।
 
[ द्वितीयः
 
हारकर्मभि: कामशासनार्थे च गन्धमाल्यधूपदीपनृत्यगीतवाद्या-

दिभिः क्रियाभिरेकान्ते च त्रिवर्गसंबन्धिनीभिः कथाभिरध्यात्म-

वादैश्वाचानुरूपैरल्पीयसैव कालेनान्वरञ्जयत् । एकदा च रहसि

रक्तं तमुपलक्ष्य 'मूढः खलु लोको यत्सह धर्मेणार्थकामावपि

गणयति' इति किंचिदस्मयत । 'कथय वासु, केनांशेनार्थकामा-

तिशायी धर्मस्तवाभिप्रेतः' इति प्रेरिता मरीचिना लज्जामन्थर-

मारभताभिधातुम् - 'इतः किल जनाद्भगवतस्त्रिवर्गबलाबल-

ज्ञानम् । अथवैतदपि प्रकारान्तरं दासजनानुग्रहस्य । भवतु,

श्रूयताम् । ननु धर्मादृतेऽर्थकामयोरनुत्पत्तिरेव । तदनपेक्ष एव

धर्मो निवृत्तिसुखप्रसूतिहेतु [^१]रात्म समाधानमात्रसाध्यञ्च । सोऽर्थ-
कामवद्वाबाह्यसाधनेषु नात्यायतते । तत्त्वदर्शनोपबृंहितश्च यथाकथं-

 
पदचन्द्रिका ।
 

 
'बलि: पूजोपहार: स्यात्' इत्यमरः । कामशासनो महादेवस्तदर्थे तन्निमित्तम् ।
त्रिवर्गो धर्मार्थकामाः । अध्यात्मवादैरात्मानमधिकृत्य ये वादास्तत्त्वबुभुत्सुकथाः ।
अल्पीयसैवाल्पे । अन्वरञ्जयत् । अनुरञ्जयामासेत्यर्थः । एकदेति । रहस्येकान्ते ।
रक्तमनुरक्तम् । किंचिदल्पम् । अस्मयत । कथयेति । वासु बाले । 'अथ बाला

स्याद्वासूः' इत्यमरः । 'अम्बार्थनद्योर्हखःह्रस्व:' (७३।१०७) इति संबुद्धा हधौ ह्रस्वता । अर्थ -
कामावतिशेते अतिक्रम्य वर्तत इति तथा । अभिप्रेतः संमतः । इतो जनान्मल्लक्षणात् ।
तदनपेक्ष एकार्थकामनिरपेक्ष एव । स्वतन्त्र एवेत्यर्थः । निवृत्तिसुखं मोक्षसुखं
तदुद्भवहेतुः । आत्मसमाधानं बुद्धेरेकाग्रतामात्रम् । 'आत्मा यत्नो धृतिर्बुद्धिः

स्वभावो ब्रह्म वर्ष्म च' इत्यमरादयः । स धर्मः । नात्यायतते नात्यन्तमधीनो
 

 
भूषणा ।
 

 
पूजोपहार: स्यात्' । उपहारकर्म 'सांझी' इति भाषायाम् । कामशासनार्थे च
कामोद्दीपनार्थे च लज्जामन्थरं व्रीडाशृङ्गारव्यभिचारिभावः । त्रिवर्गो धर्मार्थ-
कामाः । 'त्रिवर्गो धर्मकामार्थैः' इत्यमरः । अध्यात्मवादैर्ब्रह्मतत्त्वचिन्तनैः । धर्मा-

दृ
त इति । तथा च व्यासः- 'धर्मादर्थश्च कामश्च' इति । तदनपेक्षोऽर्थकामा-
नपेक्षःनिवृत्तिसुखप्रसूतिहेतुरक्षयसुखप्रसूतिहेतुः । ब्रह्मानन्दहेतुरिति यावत् ।
'निवृत्तिस्तु सुखे व्याजे अभये अक्षयेऽपि च ' (?) इति धरणिः । आत्मनः समाधा-
नबुद्धेरैकाम्ग्र्यम् । 'आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च' इति धरणिः ।
बाह्यसाधनेषु लोकव्यवहारेषु । नात्यायतते । 'यती प्रयत्न' । गुरुतल्पं बृहस्पतिभार्या ।

 
लघुदीपिका ।
 

 
'त्रिवर्गो धर्मकामार्यै थैश्चतुर्वर्गः समोक्षकैः' । अध्यात्मवादैर्मोक्षोपायविचक्षणैः ।
प्रकारान्तरं प्रकारमेभेदः । निवृत्तिसुखप्रसूतिहेतुर्मोक्षसुखोद्भवहेतुः । आत्मसमा-
पाठा०-

 
[^
]G. 'आत्मनः समाधान'
 
pinkites