2023-06-02 18:18:52 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

उच्छ्वासः ] पदचन्द्रिका-भूषणा-लघुदीपिकासहितम् ।
 
J
 
ज्ञानसाध्यः प्रायो दुःसंपाद एव, द्वितीयस्तु सर्वस्यैव सुलभः कुल-

धर्मानुष्ठायिनः । तदशक्यारम्भादुपरम्य मातुर्मते वर्तस्व' इति सानु-

कम्पमभिहिता 'यदीह भगवत्पादमूलमशरणम् शरणमस्तु मम

कृपणाया हिरण्यरेता देव एव' इत्युदमनायत । स तु मुनिरनुविमृश्य
गणिकामातरमवदम् – 'संप्रति गच्छ गृहान् । प्रतीक्षस्व कानिचि-
हि
द्दिनानि यावदियं सुकुमारा सुखोपभोगसमुचिता सत्यरण्यवास-
व्यसनेनोद्वेजिता भूयोभूयश्चास्माभिर्विबोध्यमाना प्रकृतावेव
स्थास्यति' इति । 'तथा' इति तस्याः प्रतियाते स्वजने सा गणिका
तमृषिमलघुभक्तिर्गौधौतोद्गमनीयवासिनी नात्यादृतशरीरसंस्कारा वन-
तरुपोवालवालपूरणैर्देवतार्चन -कुसुमोच्चयावचयप्रयासर्नैकै[^१]कविकल्पोप-

 
पदचन्द्रिका ।
 

 
डाच्प्रत्ययः
 
। प्रथमोऽपवर्गः । दुःसंपादो दुःसाध्यः । अशक्यारम्भात्तपस
इत्यर्थः । अशरणमरक्षितृ । 'शरणं गृहरक्षित्रोः' । 'हिरण्यरेता हुत-
भुग्दहनः' इत्यमरः । उदमनायत उन्मना अभवत् । स इति । स मुनिः ।
संप्रतीदानीम् । गृहान् । 'गृहाः पुंसि च भूम्न्येव' इत्यमरः । प्रकृतौ स्वभावे ।
अलघुभक्तिर्दृढभक्तिः । धौतोद्गमनीयेति । धौतं यदुद्गमनीयं तद्वस्ते सा
तद्वासिनी । 'तत्स्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोर्युगम्' इत्यमरः । धौतोद्गमनीयमि

त्यत्र 'विशिष्टवाचकानाम्' इति वचनाद्विशेष्यपरतया व्याख्येयम् । नात्याह-
दृतेति । नात्यादृतो नादरितः शरीरस्य संस्कारः परिकर्मादिर्यया सा । वनतरूणां
पोता बालवृक्षास्तेषामालवालानि । देवतार्चनं देवपूजा तदर्थं कुसुमानि पुष्पाणि
तेषामुच्चयः समूहस्तस्यावचयो ग्रहणं तत्प्रयासैः श्रमैः नैका अनेका ये विकल्पा
मे

भे
दाः । 'विकल्पः संशये मेभेदे' इति वररुचिः । उपहारकर्मभिर्बलिकर्मभिः ।

 
भूषणा ।
 

 
स्यते मरिष्यति । दुःखकरो दुःखदः । 'दुःखात्प्रातिलोये (५६४)

इति डाच् । संप्रतीति । 'लोकप्रवादानुकृतिर्लोकोक्तिरिति भण्यते इति
लक्षणाल्लोकोक्तिरलंकारः । उदमनायतोन्मना इवाभवत्
उदमनायतोन्मना इवाभवत्

। 'कर्तुः क्यङ्-'
 
( ३।१।११ ) इत्याचारक्यङन्तः
 
। 'दुर्मना विमना अन्तर्मनाः स्यादुत्क
 
उन्मनाः' । इत्यमरः । उद्गमनीयं वस्त्रयुगम् । 'तत्स्यादुद्गमनीयं यद्धौतयोर्वस्त्र-
योर्युगम्' इत्यमरः । उच्चयस्तरोरादानम् । अवचयो भूमेः । नैकविध-

विकल्पोऽनेकप्रकारः । 'विकल्पः संशये मेभेदे' इति वररुचिः । 'बलिः

 
लघुदीपिका ।
 

 
संस्थानं मरणं मतम्' । उदमनायतोन्मना अभवत् । उद्गमनीयं वस्त्रद्वयम्
'तत्स्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोर्युगम्' । नैक- विधविकल्पो नैकप्रकारः । 'विकल्पः
संशये मेभेदे' इति वररुचिः । 'बलि: पूजोपहारः स्यात्' । त्रिवर्गो धर्मार्थकामाः
 
पाठा० -

 
[^
]G.'नैकविधविकल्प'.
 

८ द० कु०