This page has not been fully proofread.

८४
 
दशकुमारचरितम् ।
 
भियोगैरवमानैश्चापवाहनम्,
रनुबद्धार्थानर्थसंशयान्विचार्य
 
-
 
अर्थदै रनर्थप्रतिघातिभिश्चानिन्द्यैरिभ्यै-
भूयोभूयः संयोजनमिति । गणिका-
याच गम्यं प्रति सज्जतैव न सङ्गः । सत्यामपि प्रीतौ न मातुर्मा-
तृकाया वा शासनातिवृत्तिः । एवं स्थितेऽनया प्रजापतिविहितं
स्वधर्म मुल्लङ्घ्य कचिदागन्तुके रूपमात्रधने विप्रयूनि स्वेनैव धन-
व्ययेन रममाणया मासमात्रमत्यवाहि । गम्यजनश्च भूयानर्थयोग्यः
प्रत्याचक्षाणयानया प्रकोपितः । स्वकुटुम्बकं चावसादितम् ।
'एषा कुमतिर्न कल्याणी' इति निवारयन्त्यां मयि वनवासाय
कोपात्प्रस्थिता । सा चेदियमहार्यनिश्चया सर्व एष जनोऽत्रैवान-
न्यगतिरनशनेन संस्थास्यते' इत्यरोदीत् ।
 
[द्वितीयः
 
अथ सा वारयुवतिस्तेन तापसेन 'भद्रे, ननु दुःखाकरोऽयं
चनवासः । तस्य फलमपवर्गः स्वर्गो वा । प्रथमस्तु तयोः प्रकृष्ट-
पदचन्द्रिका ।
 
1
 
अपवाहनं दूरीकरणम् । अनर्थप्रतिघातिभिरुपद्रवनिवारकैः । इभ्यैर्धनिकैः । 'इभ्य
आढ्यो धनी स्वामी' इत्यमरः । सज्जता संगतिविषयता । मातृकाया मातामह्याः ।
'मातुर्माता तु मातृका' इति वैजयन्ती । अतिवृत्तिस्त्यागः । गम्यजनो विटजनः ।
प्रत्याचक्षाणया प्रत्याख्यानं कुर्वया । अवसादितं नाशितम् । अहार्यनिश्चया दृढ-
निश्चया । संस्थास्यते मरिष्यतीत्यर्थः । 'संस्थानं मरणं मतम्' इति वैजयन्ती ।
 
अथेति । दुःखाकरो दुःखजनकः । 'दुःखात्प्रातिलोम्ये (५१४१६४ ) इति
भूषणा ।
 
प्रथमोऽपवर्गः । दुःसंपादो दुःसाध्यः । कुलधर्मानुष्टायिनः स्वकुलोचित कर्मका-
रिणः । अर्थदैस्त्यागिभिः । अनर्थप्रतिघातिभी राजवदाज्ञाशक्तिप्रधानैः । इभ्यै-
राढ्यैः । अस्माभिर्लभ्येति विचार्येत्यर्थः । 'इभ्य आढ्यो धनी खामी' इत्यमरः । 'संयो-
जनमिति' इत्यन्तेन मातुरधिकारं निरूप्य गणिकाधिकारमाह– गणिकाया-
चेति । अधिकार इत्यनुषज्यते । मातृकाया मातुर्मातुः । 'मातुर्माता तु मातृका' इति
वैजयन्ती । कुटुम्बकम् । अनुकम्पायां कन्। अहार्यनिश्चया दृढनिश्चया । संस्था
 
विषयता । 'मातुर्माता तु
 
पाठा० - १ 'अन्यै: '
 
लघुदीपिका ।
 
मातृका' इति वैजयन्ती । संस्थास्यते मरिष्यति ।