2023-06-02 17:10:07 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

प्राज्ञतमायाल्पेनापि बहुव्यपदेशेनार्पणम्, अस्वतन्त्रेण वा गान्धर्व-
समागमेन तद्गुरुभ्यः शुल्कापहरणम्, अलाभेऽर्थस्य कामस्वीकृते
[^१]स्वामि[^२]न्यधिकरणे च साधनम्, रक्तस्य दुहित्रैकचारिणीव्रतानुष्ठापनम्, नित्यनैमित्तिकप्रीतिदायकतया [^३]हृतशिष्टानां गम्यधनानां चित्रैरुपायैरपहरणम्, अददता लुब्धप्रायेण च विगृह्यासनम्, प्रतिहस्तिप्रोत्साहनेन लुब्धस्य
रागिणस्त्यागशक्तिसंधुक्षणम्, असारस्य वाक्संतक्षणैर्लोकोपक्रोशनैर्दुहितृनिरोधनैर्व्रीडोत्पादनैरन्या-
 
पदचन्द्रिका ।
 
वैजयन्ती । दाक्षिण्यं परिचितपरित्यागाक्षमत्वम् । गान्धर्वसमागमेन । गान्धर्वविवाहेनेत्यर्थः । कामस्वीकृते स्वायत्तीकृते । स्वामिन्यधिकारिणि । अधिकरणे चोत्तरादौ । रक्तस्य । अनुरक्तस्येत्यर्थः । एकचारिणीव्रतं पातिव्रत्यम् । हृतशि-
ष्टानां गृहीतावशिष्टानाम् । गम्यधनानाम् । गम्या भुजङ्गाः । 'गम्यो विटः पाल्लविको भुजङ्गः' इति भागुरिः । असनं क्षेपणम् । प्रतिहस्त्यासन्नगृहवेश्यापतिः ।'प्रतिहस्ती प्रातिवेश्यः' इति वैजयन्ती । त्यागशक्तेः संधुक्षणमुद्दीप्तीकरणम् । असारस्य निर्धनस्य । वाक्संतक्षणैर्वचनतिरस्कारैः । लोकोपक्रोशनैर्लोकेषु निन्दनैः ।
 
भूषणा ।
 
दाक्षिण्यम् । अल्पेनाल्पशुल्केन । अधिगुणाद्गुणग्रहणमेव महालाभ इति भावः । गान्धर्वसमागमो गान्धर्वविवाहः । 'गान्धर्वः समयान्मिथः । तदीयद्रव्यापकारित्वायेति (?) । अस्वतन्त्राद्ग्रहणे तु तत्पित्रादयः शुक्लं परावृत्य गृह्णीयुरिति तेभ्यः । एव ग्रहणमिति भावः । अलाभेऽर्थस्य धूर्तात्स्वशुल्कालाभे । कामस्वीकृते
केवलं मैत्र्यादङ्गीकृते । न तु भयेनाङ्गीकृते । स्वामिनि प्रभौ ग्रामाध्यक्षे । अधिकरणे नागरिकसंसदि ।साधनमुच्चावचवागादिभिः स्वोपयुक्तविधानम् ।
एकचारिणीव्रतं पातिव्रत्यम् । आहृतशिष्टानामाहृतेभ्य आकर्षितेभ्यः शिष्टानामवशिष्टानामुर्वरितानां गम्यस्य विटजनस्य धनानामित्यन्वयः । गम्यो विट: । 'गम्यो विटः पाल्लविको भुजङ्गः' इति भागुरिः । आसनमुपवेशनम् । प्रतिहस्त्यासन्नगृहवेश्यापतिः । 'प्रतिहस्ती प्रातिवेश्यः' इति वैजयन्ती । संतक्षणैस्तनूकरणैः । 'तक्षू
तनूकरणे' । उपक्रोशनैः कुत्सनैः । 'उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे'
 
लघुदीपिका ।
 
वञ्चनम्' इति वैजयन्ती । परिचितपरित्यागाक्षमत्वं दाक्षिण्यम् । साधनं दापनम् । एकचारिणीव्रतं पातिव्रत्यम् । 'गम्यो विट: पाल्लविको भुजङ्गः' इति भागुरिः । प्रतिहस्त्यासन्नगृहवेश्यापतिः । 'प्रतिहस्ती प्रातिवेश्यः' इति वैजयन्ती । संतक्षणैश्छेदनैः । 'तक्ष संतक्षणे' । उपक्रोशनैः । 'उपक्रोशस्तु गर्हणम्' । सज्जता संगति-
 
[^१]G. 'उभौ'.
[^२]G. अधिकगुणे च'.
[^३]G. 'आहृत'.