2023-06-02 17:06:48 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् । ८३
प्राज्ञतमायाल्पेनापि बहुव्यपदेशेनार्पणम्, अस्वतन्त्रेण वा गान्धर्व-

समागमेन तद्गुरुभ्यः शुल्कापहरणम्, अलाभेऽर्थस्य कामस्वीकृते

[^१]
स्वामि[^२]न्यधिकरणे च साधनम्, रक्तस्य दुहित्रैकचारिणीव्रतानुष्ठा-
पनम्, नित्यनैमित्तिकप्रीतिदायकतया [^३]हृतशिष्टानां गम्यधनानां
चित्रैरुपायैरपहरणम्, अददता लुब्धप्रायेण च विगृह्यासनम्,
प्रतिहस्तिप्रोत्साहनेन लुब्धस्य

रागिणस्त्यागशक्तिसंधुक्षणम्,
 
असारस्य वाक्संतक्षणैर्लोकोपक्रोशनैर्दुहि तृनिरोधनैर्व्रीडोत्पादनैरन्या-
3
 

 
पदचन्द्रिका ।
 

 
वैजयन्ती । दाक्षिण्यं परिचितपरित्यागाक्षमत्वम् । गान्धर्वसमागमेन । गान्धर्व-
विवाहेनेत्यर्थः । कामस्वीकृते स्वायत्तीकृते । स्वामिन्यधिकारिणि । अधिकरणे
चोत्तरादौ । रक्तस्य । अनुरक्तस्येत्यर्थः । एकचारिणीव्रतं पातिव्रत्यम् । हृतशि-

ष्
टानां गृहीतावशिष्टानाम् । गम्यधनानाम् । गम्या भुजङ्गाः । 'गम्यो विटः पाल्ल-
विको भुजङ्गः' इति भागुरिः । असनं क्षेपणम् । प्रतिहस्त्यासन्नगृहवेश्यापतिः ।
'प्रतिहस्ती प्रातिवेश्यः' इति वैजयन्ती । त्यागशक्तेः संधुक्षणमुद्दीप्तीकरणम् ।
असारस्य निर्धनस्य । वाक्संतक्षणैर्वचनतिरस्कारैः । लोकोपक्रोशनैर्लोकेषु निन्दनैः ।
 

 
भूषणा ।
 

 
दाक्षिण्यम् । अल्पेनाल्पशुल्केन । अधिगुणागुणग्रहणमेव महालाभ इति भावः ।
गान्धर्वसमागमो गान्धर्वविवाहः । 'गान्धर्वः समयान्मिथः । तदीयद्रव्यापका-
रित्वायेति (?) । अस्वतन्त्राद्ब्ग्रहणे तु तत्पित्रादयः शुक्लं परावृत्य गृह्णीयुरिति
तेभ्यः । एव ग्रहणमिति भावः । अलामेभेऽर्थस्य धूर्तात्स्वशुल्कालाभे । कामस्वीकृते

केवलं मैत्र्यादङ्गीकृते । न तु भयेनाङ्गीकृते । स्वामिनि प्रभौ ग्रामाध्यक्षे ।
अधिकरणे नागरिकसंसदि । साधनमुच्चावचवागादिभिः खोस्वोपयुक्तविधानम् ।

एकचारिणीव्रतं पातिव्रत्यम् । आहृतशिष्टानामाहृतेभ्य आकर्षितेभ्यः शिष्टानामव-
शिष्टानामुर्वरितानां गम्यस्य विटजनस्य धनानामित्यन्वयः । गम्यो विट: । 'गम्यो
विटः पाल्लविको भुजङ्गः' इति भागुरिः । आसनमुपवेशनम् । प्रतिहस्त्यासन्नगृह-
वेश्यापतिः । 'प्रतिहस्ती प्रातिवेश्यः' इति वैजयन्ती । संतक्षणैस्तनूकरणैः । 'तक्षू

तनूकरणे' । उपक्रोशनैः कुत्सनैः । 'उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे'

 
लघुदीपिका ।
 
PO
 

 
ञ्चनम्' इति वैजयन्ती । परिचितपरित्यागाक्षमत्वं दाक्षिण्यम् । साधनं दापनम् ।
एकचारिणीव्रतं पातिव्रत्यम् । 'गम्यो विट: पाल्लविको भुजङ्गः' इति भागुरिः ।
प्रतिहस्त्यासन्नगृहवेश्यापतिः । 'प्रतिहस्ती प्रातिवेश्यः' इति वैजयन्ती । संतक्षणै-
श्छेदनैः । 'तक्ष संतक्षणे' । उपक्रोशनैः । 'उपक्रोशस्तु गर्हणम्' । सजता संगति-
पाठा० -

 
[^
]G. 'उभौ'.
[^
]G. अधिकगुणे च'.
[^
]G. 'आहृत'.