2023-06-02 16:54:56 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

पूर्वसंगृहीतैर्ग्राह्यवाग्भिः सिद्धिलम्भनम्, दिङ्मुखेषु तत्तच्छिल्प-
वित्तकैर्यशःप्रख्यापनम्, कार्तान्तिकादिभिः कल्याणलक्षणोद्घोषणम्, पीठमर्दविटविदूषकैर्भिक्षुक्यादिभिश्च नागरिकपुरुषसमवायेषु रूपशीलशिल्पसौन्दर्यमाधुर्यप्रस्तावना, युवजनमनोरथलक्ष्यभूतायाः प्रभूततमेन शुल्केनावस्थापनम्, स्वतो रागान्धाय तद्भावदर्शनोन्मादिताय वा जातिरूपवयोऽर्थशक्तिशौचत्यागदाक्ष्यदाक्षिण्यशिल्प-शीलमाधुर्योपपन्नाय स्वतन्त्राय प्रदानम्, अधिकगुणायास्वतन्त्राय
 
पदचन्द्रिका ।
 
वस्तुन्यपि परिच्छदे' इत्यपि । सेवकजन इति यावत् । ग्राह्यवाग्भिः शिक्षकैः । 'ग्राह्यवागुपलालकः' इति वैजयन्ती । सिद्धिलम्भनं सिद्धिप्रापणम् । शिल्पवित्तकैः कलाप्रसिद्धैर्मार्दङ्गिकमौर- जिकादिभिः । 'प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः' इत्यमरः । कार्तान्तिका लक्षणज्ञाः । 'कार्तान्तिको लक्षणज्ञः' इत्यपि ।
उद्घोषणं ख्यापनम् । पीठमर्दो नटविशेषः। 'पीठमर्दो विदश्चेति तथा चेटविदूषकौ' इत्युक्तेष्वतिधृष्टो नायकप्रियः पीठमर्द इति । 'पीठमर्दोऽतिधृष्टे स्यान्नाट्योक्त्त्या नायकप्रिये' इति विश्वः । विट एकविद्यः । विदूषकः । 'विकृताङ्गवचोवेषैर्हास्यकारी विदूषकः' इति । भिक्षुकी श्रमणा । 'श्रमणा भिक्षुकी मुण्डा'
इति हैमः । नागरिका निपुणाः । समवायेषु समुदायेषु । 'समुदायः समुदयः समवायश्चयो गणः' इत्यमरः । प्रभूततमेन प्रचुरतरेण । शुल्को मौल्यम् । उन्मादित उन्मादं प्रापितस्तस्मै । शौचं शुद्धता । 'शौचमर्थेष्ववञ्चनम्' इति
 
भूषणा ।
 
ऽर्थे परिबर्हः' इत्यमरः । संगृहीतैर्विधेयीकृतैः ग्राह्यवाग्भिरुपलालकैः । ग्राह्यवागुपलालकः' इति वैजयन्ती । शिल्पवित्तकैः शिल्पप्रसिद्धैः । मार्दङ्गिकमौरजिकाद्यैरित्यर्थः । 'प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः' इत्यमरः । कार्तान्तिकः सामुद्रिकज्ञः । 'कार्तान्तिको लक्षणज्ञः' इति वैजयन्ती । पीठमर्दः कुपितस्त्रीप्रसादकः । विटः खिड्ग: । 'खिड्ग: पाल्लविको विटः' इत्यमरः । विदूषकः । 'अङ्गादिवेषवैकृत्यैर्हास्यकारी विदूषकः' इति रसरत्नहारः । भिक्षुकी श्रमणा । नागरिका निपुणाः ।
अवस्थापनं समीपे स्थापनम् । शौचमुज्ज्वलत्वम् । परिचितपरित्यागाक्षमत्वं
 
लघुदीपिका ।
 
बर्हः परिकरः । 'परिबर्हः परिच्छदः' । संगृहीतैर्विधेयीकृतैः । ग्राह्यवाग्भिः। 'ग्राह्यवागुपलालकः' । शिल्पवित्तकैः शिल्पप्रसिद्धैः । 'प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः' । कार्तान्तिकः सामुद्रज्ञः । 'कार्तान्तिको लक्षणज्ञः' इति वैजयन्ती । 'किंचिदूनः पीठमर्द एकविद्यो विटः स्मृतः । संधाननिपुणश्चैव हास्यकारी विदूषकः' । 'भिक्षुकी श्रमणी समे' । नागरिका निपुणाः । 'शौचमर्थेष्व-