2023-06-02 16:52:00 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

दशकुमारचरितम् ।
 
[ द्वितीयः
 
पूर्वसंगृहीतैर्ग्राह्यवाग्भिः सिद्धिलम्भनम्, दिङ्मुखेषु तत्तच्छिल्प-

वित्तकैर्यशःप्रख्यापनम्, कार्तान्तिकादिभिः कल्याणलक्षणोद्घोषणम्,
पीठमर्दविटविदूषकैर्भिक्षुक्यादिभिश्च नागरिकपुरुषसमवायेषु रूप-
शीलशिल्पसौन्दर्य माधुर्यप्रस्तावना, युवजनमनोरथलक्ष्यभूतायाः
प्रभूततमेन शुल्केनावस्थापनम्, स्वतो रागान्धाय तद्भावदर्शनोन्मा-
दिताय वा जातिरूपवयोऽर्थशक्तिशौचत्यागदाक्ष्यदाक्षिण्यशिल्प-
शीलमाधुर्योपपन्नाय स्वतन्त्राय प्रदानम्, अधिकगुणायास्वतन्त्राय
 
८२
 

 
पदचन्द्रिका ।
 

 
वस्तुन्यपि परिच्छदे' इत्यपि । सेवकजन इति यावत् । प्ग्राह्यवाग्भिः शिक्षकैः ।
'ग्राह्यवागुपलालकः' इति वैजयन्ती । सिद्धिलम्भनं सिद्धिप्रापणम् । शिल्पवि-
त्तकैः कलाप्रसिद्धैर्मार्दशिङ्गिकमौर- जिकादिभिः । 'प्रतीते प्रथितख्यातवित्तविज्ञात-
विश्रुताः' इत्यमरः । कार्तान्तिका लक्षणज्ञाः । 'कार्तान्तिको लक्षणज्ञः' इत्यपि ।

उद्घोषणं ख्यापनम् । पीठमर्दो नटविशेषः। 'पीठमर्दो विदश्चेति तथा चेटविदू-
घको
षकौ' इत्युक्तेष्वतिवृधृष्टो नायकप्रियः पीठमर्द इति । 'पीठमर्दोऽतिवृधृष्टे स्यान्ना-
व्
ट्योक्त्त्या नायकप्रिये' इति विश्वः । विट एकविद्यः । विदूषकः । 'विकृताशव-
ङ्गवचोवेषैर्हास्यकारी विदूषकः' इति । भिक्षुकी श्रमणा । 'श्रमणा भिक्षुकी मुण्डा'

इति हैमः । नागरिका निपुणाः । समवायेषु समुदायेषु । 'समुदायः समुदयः
समवायश्चयो गणः' इत्यमरः । प्रभूततमेन प्रचुरतरेण । शुल्को मौल्यम् ।
उन्मादित उन्मादं प्रापितस्तस्मै । शौचं शुद्धता । 'शौचमर्थेष्ववञ्चनम्' इति
 

 
भूषणा ।
 

 
ऽर्थे परिबर्हः' इत्यमरः । संगृहीतैर्विधेयीकृतैः ग्राह्यवाग्भिरुपलालकैः । ग्राह्यवा-
गुपलालकः' इति वैजयन्ती । शिल्पवित्तकैः शिल्पप्रसिद्धैः । मार्दङ्गिकमौरजिका-
वै
द्यैरित्यर्थः । 'प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः' इत्यमरः । कार्तान्तिकः सामु-
द्रिकज्ञः । 'कार्तान्तिको लक्षणज्ञः' इति वैजयन्ती । पीठमर्दः कुपितस्त्रीप्रसादकः ।
विटः खिङ्गःड्ग: । 'खिङ्गःड्ग: पाल्लविको विटः' इत्यमरः । विदूषकः । 'अङ्गादिवेषवैकृ-
त्यैर्हास्यकारी विदूषकः' इति रसरत्नहारः । भिक्षुकी श्रमणा । नागरिका निपुणाः ।

अवस्थापनं समीपे स्थापनम् । शौचमुज्ज्वलत्वम् । परिचितपरित्यागाक्षम
त्वं
 
लघुदीपिका ।
 

 
बर्हः परिकरः । 'परिबर्हः परिच्छदः' । संगृहीतैर्विधेयीकृतैः । ग्राह्यवाग्भिः
। ।
'आ
। 'ग्राह्यवाग्रुगुपलालकः' । शिल्पवित्तकैः शिल्पप्रसिद्धैः । 'प्रतीते प्रथितख्यातवित्त-
विज्ञातविश्रुताः' । कार्तान्तिकः सामुद्रज्ञः । 'कार्तान्तिको लक्षणज्ञः' इति वैज-
यन्ती । 'किंचिदूनः पीठमर्द एकविद्यो विटः स्मृतः । संधाननिपुणश्चैव हास्य-
कारी विदूषकः' । 'भिक्षुकी श्रमणी समे' । नागरिका निपुणाः । 'शौचमर्थेष्व-