2023-06-02 15:47:06 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

दिने चोत्सवोत्तरो मङ्गलविधिः, अध्यापनमनङ्गविद्यानां साङ्गा-
नाम्, नृत्यगीतवाद्यनाट्यचित्रास्वाद्यगन्धपुष्पकलासु लिपिज्ञान-
वचनकौश[^१]लादिषु च सम्यग्विनयनम्, शब्दहेतुसमयविद्यासु
[^२]वार्तामात्रावबोधनम्, आजीवज्ञाने क्रीडाकौशले सजीवनिर्जी-
वासु च द्यूतकलास्वभ्यन्तरीकरणम् अभ्यन्तरकलासु वैश्वासि-
कजनात्प्रयत्नेन प्रयोगग्रहणम्, यात्रोत्सवादिष्वादरप्रसाधितायाः
स्फीतपरिबर्हायाः प्रकाशनम्, प्रसङ्गवत्यां संगीतादिक्रियायां
 
पदचन्द्रिका ।
 
अनङ्गविद्यानां कामप्रतिपादकविद्यानाम् । विनयनं शिक्षणम् । शब्दो व्याकरणम् । हेतुस्तर्कः । समयः सिद्धान्तः । 'समयाः शपथाचारकालसिद्धान्तसंविदः' इत्यमरः । अवबोधनं ज्ञानम् । आजीवो जीविका । क्रीडाकौशले नर्मभाषणनैपुणे ।
'क्रीडा लीला च नर्म च' इत्यमरः । सजीवाः कुक्कुटादियोधनानि, निर्जीवाश्चतुरङ्गाद्याः । अभ्यन्तरीकरणं स्वायत्तीकरणम् । अभ्यन्तरकलासु रतकलासु । 'साभ्यन्तरकला यत्तु स्पृश्याङ्गस्पर्शनं रतौ' इति वात्स्यायनः । वैश्वासिकजनादाप्तजनात् । प्रयोगः कर्तव्यता । प्रसाधिताया अलंकृतायाः । 'प्रसाधितोऽलंकृतश्च
भूषितश्च परिष्कृतः' इति वैजयन्ती । परिबर्हः परिच्छदः । 'परिबर्हस्तु राजार्हे
 
भूषणा ।
 
दर्शनम् । दृष्टिदोषस्य बाल्ये भयसत्त्वात् । अनङ्गविद्यानां वात्स्यायनसूत्रादीनाम् । 'वचनकौशलं वक्रोक्तिश्लेषादि । शब्दो व्याकरणम् । हेतुस्तर्कः । समयः सिद्धान्तो ज्यौतिषः । 'समयाः शपथाचारकालसिद्धान्तसंविदः' इत्यमरः । आजीवो जीवि-
कोपायः । 'आजीवो जीविका वार्ता' इत्यमरः । क्रीडाकौशले नर्मभाषणनैपुणे । 'क्रीडा लीला च नर्म च ' इत्यमरः । सजीवनिर्जीवासु । सजीवः कुक्कुटादियोधनम्, निजीर्वाश्चतुरङ्गाद्याः । अभ्यन्तरकला रतसमये क्रियमाणं किमपि विज्ञानम् ।
'साभ्यन्तरकला यत्तु स्पृश्याङ्गस्पर्शनं रतौ' इति वात्स्यायनः । प्रसाधिताया अलंकृतायाः । 'प्रसाधितोऽलंकृतश्च' इत्यमरः । परिबर्हः परिकरः । 'परिच्छदे नृपार्हे
 
लघुदीपिका ।
 
दोषा वातपित्तश्लेष्माणः । शब्दो व्याकरणम् । हेतुस्तर्कः । समयः सिद्धान्तः । 'समयाः शपथाचारकालसिद्धान्तसंविदः' । वार्तावार्तावबोधनं सारासारावबोधनम् । 'वार्तं फल्गुन्यसारेऽपि । आजीवो जीविका । क्रीडाकौशले नर्मभाषणनैपुणे । 'क्रीडा लीला च नर्म च' । सजीवनिर्जीवासु द्यूतकलासु । सजीवः कुक्कु-टादियोधनम्, निर्जीवाश्चतुरङ्गाद्याः । अभ्यन्तरकला रतसमये क्रियमाणं किमपि विज्ञानम् । 'साभ्यन्तरकला यत्तु स्पृश्याङ्गस्पर्शनं रतौ इति वात्स्यायनः । प्रसाधितायाः । 'प्रसाधितोऽलंकृतश्च भूषितश्च परिष्कृतः' इति वैजयन्ती । परि-
 
[^१]G. 'कौशलेषु'.
[^२]G. वार्तावार्तावबोधनम्'