This page has not been fully proofread.

उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् ।
 
८१
 
दिने चोत्सवोत्तरों मङ्गलविधिः, अध्यापनमनङ्गविद्यानां साझा-
नाम्, नृत्यगीतवाद्यनाट्यचित्रा स्वाद्यगन्धपुष्पकलासु लिपिज्ञान-
वचनकौशैलादिषु च सम्यग्विनयनम्, शब्दहेतुसमयविद्यासु
वार्तामात्रावबोधनम्, आजीवज्ञाने क्रीडाकौशले सजीवनिर्जी-
वासु च द्यूतकलास्वभ्यन्तरीकरणम् अभ्यन्तरकलासु वैश्वासि-
कजनात्प्रयत्नेन प्रयोगग्रहणम्, यात्रोत्सवादिष्वादरप्रसाधितायाः
स्फीतपरिबर्हायाः प्रकाशनम्, प्रसङ्गवत्यां संगीतादिक्रियायां
पदचन्द्रिका ।
 
,
 
अनङ्गविद्यानां कामप्रतिपादकविद्यानाम् । विनयनं शिक्षणम् । शब्दो व्याकरणम् ।
हेतुस्तर्कः । समयः सिद्धान्तः । 'समयाः शपथाचारकालसिद्धान्तसंविदः' इत्य-
मरः । अवबोधनं ज्ञानम् । आजीवो जीविका । क्रीडाकौशले नर्मभाषणनैपुणे ।
'क्रीडा लीला च नर्म च इत्यमरः । सजीवाः कुक्कुटादियोधनानि, निर्जीवाश्चतु-
रनाद्याः । अभ्यन्तरीकरणं स्वायत्तीकरणम् । अभ्यन्तरकलासु रतकलासु ।
'साभ्यन्तरकला यत्तु स्पृश्याङ्गस्पर्शनं रतौ इति वात्स्यायनः । वैश्वासिकजनादा-
तजनात् । प्रयोगः कर्तव्यता । प्रसाधिताया अलंकृतायाः । 'प्रसाधितोऽलंकृतश्च
भूषितश्च परिष्कृतः' इति वैजयन्ती । परिबर्हः परिच्छदः । 'परिबर्हस्तु राजा
 

 
भूषणा ।
 
'
 
दर्शनम् । दृष्टिदोषस्य बाल्ये भयसत्त्वात् । अनङ्गबिद्यानां वात्स्यायनसूत्रादीनाम् ।
'बचनकौशलं वक्रोक्तिश्लेषादि । शब्दो व्याकरणम् । हेतुस्तर्कः । समयः सिद्धान्तो
ज्यौतिषः । 'समयाः शपथाचारकालसिद्धान्तसंविदः' इत्यमरः । आजीवो जीवि-
कोपायः । 'आजीवो जीविका वार्ता' इत्यमरः । क्रीडाकौशले नर्मभाषणनैपुणे ।
'क्रीडा लीला च नर्म च ' इत्यमरः । सजीवनिर्जीवासु । सजीवः कुक्कुटादियोध-
नम्, निजींवाश्चतुरङ्गाद्याः । अभ्यन्तरकला रतसमये क्रियमाणं किमपि विज्ञानम् ।
'साभ्यन्तरकला यत्तु स्पृश्यास्पर्शनं रतौ' इति वात्स्यायनः । प्रसाधिताया अलं
कृतायाः । 'प्रसाधितोऽलंकृतश्च' इत्यमरः । परिबर्हः परिकरः । 'परिच्छदे नृपाई
लघुदीपिका ।
 
दोषा वातपित्त वेष्माणः । शब्दो व्याकरणम् । हेतुस्तर्कः । समयः सिद्धान्तः ।
'समयाः शपथाचारकालसिद्धान्तसंविदः' । वार्तावार्तावबोधनं सारासारावबोध-
नम् । 'वार्तं फल्गुन्यसारेऽपि । आजीवो जीविका । क्रीडाकौशले नर्मभाषणनै-
पुणे । 'क्रीडा लीला च नर्म च' । सजीवनिर्जीवासु द्यूतकलासु । सजीवः कुक्कु-
टादियोधनम्, निर्जीवाश्चतुरङ्गायाः । अभ्यन्तरकला रतसमये क्रियमाणं किमपि
विज्ञानम् । 'साभ्यन्तरकला यत्तु स्पृश्याङ्गस्पर्शनं रतौ इति वात्स्यायनः । प्रसा-
धितायाः । 'प्रसाधितोऽलंकृतश्च भूषितश्च परिष्कृतः' इति वैजयन्ती । परि-
पाठा० - १ 'कौशलेषु'. ९ वार्तावार्तावबोधनम्'
 
M