2023-06-02 15:25:46 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

शरणमभिप्रपन्नः' इति । तस्यास्तु जनन्युदञ्जलि: पलितशारशि-
खण्डबन्धस्पृष्टमुक्तभूमिरभाषत – 'भगवन् अस्या मे दोषमेषा
वो दासी विज्ञापयति । दोषश्च मम स्वाधिकारानुष्ठापनम् ।
एष हि गणिकामातुरधिकारो यद्दुहितुर्जन्मनः प्रभृत्येवाङ्गक्रिया,
तेजोबलवर्णमेधासंवर्धनेन दोषाग्निधातुसाम्यकृता मितेनाहारेण
शरीरपोषणम्, आ पञ्चमाद्वर्षात्पितुरप्यनतिदर्शनम्, जन्मदिने पुण्य-
 
पदचन्द्रिका ।
 
सीयाय । 'श्वःश्रेयसं स्यात्कल्याणं श्वोवसीयं शिवं शुभम्' इति हलायुधः । आर्ताभ्युपपत्तिवित्तयोरार्तानां पीडितानामभ्युपपत्तिरनुग्रहस्तद्वित्तयोः ख्यातयोः ।
चरणविशेषणम् । 'शरणं गृहरक्षित्रोः' इत्यमरः । तस्या इति । तस्या
वाराङ्गनायाः । जननी माता । उद्गतोऽञ्जलिः यस्याः सा उदञ्जलिरूर्ध्वीकृताञ्जलिः । पलितेन जरसा शौक्ल्येन शारश्चित्रो यः
यः शिखण्डबन्धस्तेनादौ स्पृष्टा पश्चान्मुक्ता भूमिर्यया । 'पूर्वकालैक' ( २।१।४९ ) इति समासः । भगवन्निति । मे दोषं मद्दूषणम् । एषेति पुरोवर्तिनी । वो युष्माकं दासी, मत्कन्येत्यर्थः । स्वाधिकारानुष्ठापनं स्वोचितकर्माचरणप्रेरणम् । अङ्ग-क्रियोद्वर्तनादिः । 'अङ्गक्रिया यदङ्गेषु हरिद्रातैलमर्दनम्' इति वात्स्यायने । 'तेजः प्रभावः' इति महीपः । बलं शारीरम् । वर्णो रूपम् । मेधा धारणावती बुद्धिः । एतेषां सम्यग्वर्धनेन पोषणेन । दोषा वातपित्तश्लेष्माणः । अग्निर्जाठरः । धातवः सप्त । एतेषां साम्यकृताऽवैषम्यकृता । आहारेण भक्षणेन । आ पञ्चमात् । पञ्चमवर्षादुत्तरमित्यर्थः । 'आङ् मर्यादाभिविध्यो:' इति । अनति-
दर्शनमत्यन्तदर्शनाभावः । जन्मदिन उत्पत्तिदिवसे । पुण्यदिने संक्रमणादौ ।
 
भूषणा ।
 
कल्याणं श्वोवसीयं शिवं शुभम्' इति वैजयन्ती । 'श्वसो वसीयः श्रेयसः ।' (५।४।८०) अभ्युपपत्तिरनुभवः । पादयोर्मूलं पादसमीपदेशम् । मूलशब्दः समीपदेशवाची । एता-
वताप्यार्तिकारणं स्पष्टम् । अनुपन्यासादार्तिकारणं तज्जनन्याह-अस्या मे दोषमिति । विज्ञापनं कथनम् । अनुष्ठापनं विधापनम् । जन्मनः । 'कार्तिक्याः प्रभृति' इति भाष्यप्रयोगात्पञ्चमी । अङ्गक्रिया । 'अङ्गक्रिया यदङ्गेषु हरिद्रातैलमर्दनम्' इति वात्स्यायने । दोषा वातपित्तश्लेष्माणः । मेधा बुद्धिः । 'धीर्धारणावती मेधा' इत्यमरः ।
अग्निर्जाठरः । धातवो रसादयः । तेषां साम्यं करोति तादृक् तेन । 'वसासृङ्मांसमेदोस्थिमज्जाशुक्राणि धातवः । सप्तैव दश वैकेषां रोमत्वक्स्नायुभिः सह ॥ " इति हेमचन्द्रः । आ पञ्चमात् । 'पञ्चम्यपाङ्परिभिः' (२।३।१० ) इति पञ्चमी । पितुरप्यनति-
 
लघुदीपिका ।
 
श्वोवसीयं शिवं शुभम् । अभ्युपपत्तिरनुग्रहः । अनुष्ठापनं विधापनम् । प्रभृतियोगे पञ्चमी वक्तव्या । 'अङ्गक्रिया यदङ्गेषु हरिद्रातैलमर्दनम्' इति वात्स्यायने ।