This page has not been fully proofread.

दशकुमारचरितम् ।
 
[ द्वितीयः
 
शरणमभिप्रपन्नः'
 
इति । तस्यास्तु जनन्युदञ्जलि:
 
पलितशारशि-
5
 
खण्डबन्धस्पृष्टमुक्तभूमिरभाषत – 'भगवन् अस्या मे दोषमेषा
वो दासी विज्ञापयति । दोषश्च मम स्वाधिकारानुष्ठापनम् ।
एष हि गणिकामातुरधिकारो यहुहितुर्जन्मनः प्रभृत्येवाङ्गक्रिया,
तेजोबलवर्णमेधासंवर्धनेन दोषाग्निधातुसाम्यकृता मितेनाहारेण
शरीरपोषणम्, आ पञ्चमाद्वर्षात्पितुरप्यनतिदर्शनम्, जन्मदिने पुण्य-
८०
 
पदचन्द्रिका ।
 
सीयाय । 'श्वःश्रेयसं स्यात्कल्याणं श्वोवसीयं शिवं शुभम्' इति हलायुधः ।
आर्ताभ्युपपत्तिवित्तयोरार्तानां पीडितानामभ्युपपत्तिरनुग्रहस्तद्वित्तयोः ख्यातयोः ।
चरणविशेषणम् । 'शरणं गृहरक्षित्रोः' इत्यमरः । तस्या इति । तस्या
वाराङ्गनायाः । जननी माता । उद्गतोऽजलिः यस्याः सा उदजलिरूवकृता-
जलिः । पलितेन जरसा शौक्कथेन शारश्चित्रो यः
यः शिखण्डबन्धस्तेनादौ
स्पृष्टा पश्चान्मुक्ता भूमिर्यया । 'पूर्वकालैक' ( २११९४९ ) इति समासः ।
भगवन्निति । मे दोषं महूषणम् । एषेति पुरोवर्तिनी । वो युष्माकं
दासी, मत्कन्येत्यर्थः । स्वाधिकारानुष्ठापनं स्वोचितकर्माचरणप्रेरणम् । अङ्ग-
क्रियोद्वर्तनादिः । 'अशक्रिया यदङ्गेषु हरिद्रातैलमर्दनम्' इति वात्स्यायने ।
'तेजः प्रभावः' इति महीपः । बलं शारीरम् । वर्णो रूपम् । मेधा
धारणावती बुद्धिः । एतेषां सम्यग्वर्धनेन पोषणेन । दोषा वातपित्तश्लेष्माणः ।
अग्निर्जाठरः । धातवः सप्त । एतेषां साम्यकृताऽवैषम्यकृता । आहारेण भक्षणेन ।
आ पञ्चमात् । पञ्चमवर्षादुत्तरमित्यर्थः । 'आङ् मर्यादाभिविष्योः' इति । अनति-
दर्शनमत्यन्तदर्शनाभावः । जन्मदिन उत्पत्तिदिवसे । पुण्यदिने संक्रमणादौ ।
 
भूषणा ।
 
el
 
कल्याणं वोवसीयं शिवं शुभम्' इति वैजयन्ती । 'श्वसो वसीयः श्रेयसः ।' (५॥४/८०)
अभ्युपपत्तिरनुभवः । पादयोर्मूलं पादसमीपदेशम् । मूलशब्दः समीपदेशवाची । एता-
वताप्यार्तिकारणं स्पष्टम् । अनुपन्यासादार्तिकारणं तज्जनन्याह-अस्या मे दोष-
मिति । विज्ञापनं कथनम् । अनुष्ठापनं विधापनम् । जन्मनः । 'कार्तिक्याः प्रभृति'
इति भाप्यप्रयोगात्पञ्चमी । अङ्गक्रिया । 'अङ्गक्रिया यदङ्गेषु हरिद्रातैलमर्दनम्' इति
वात्स्यायने । दोषा वातपित्तश्लेष्माणः । मेधा बुद्धिः । 'धीर्धारणावती मेधा' इत्यमरः ।
अग्निर्जाठरः । धातवो रसादयः । तेषां साम्यं करोति तादृक् तेन । 'वसासृड्यांसमेदो-
स्थिमज्जाशुक्राणि धातवः । सप्तैव दश वैकेषां रोमत्वक्स्नायुभिः सह ॥ " इति हेम-
चन्द्रः । आ पञ्चमात् । 'पञ्चम्यपाङ्परिभिः' (२।३।१० ) इति पञ्चमी । पितुरप्यनति-
लघुदीपिका ।
 
वोवसीयं शिवं शुभम् । अभ्युपपत्तिरनुग्रहः । अनुष्ठापनं विधापनम् । प्रभृति-
योगे पञ्चमी वक्तव्या । 'अङ्गक्रिया यदङ्गेषु हरिद्रातैलमर्दनम्' इति वात्स्यायने ।