2023-06-02 15:11:55 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

नामाङ्ग [^१]पुरीवतंसस्थानीया वारयुवतिरश्रुबिन्दुतारकितपयोधरा सनिर्वेदमभ्येत्य कीर्णशिखण्डास्तीर्णभूमिरभ्यवन्दिष्ट । तस्मिन्नेव
च क्षणे मातृप्रमुखस्तदाप्तवर्गः सानुक्रोशमनुप्रधावितस्तत्रैवावि-
च्छिन्न [^२]पातमपतत् । स किल कृपालुस्तं जनमार्द्रया गिरा[^३] श्वास्यार्तिकारणं तां गणिकामपृच्छत् । सा तु सव्रीडेव सविषादेव
सगौरवेव चाब्रवीत् - 'भगवन्, ऐहिकस्य [^४]सुखस्याभाजनं जनो-
ऽयमामुष्मिकाय श्वोवसीयायार्ताभ्युपपत्तिवित्तयोर्भगवत्पादयोर्मूलं
 
पदचन्द्रिका ।
 
अङ्गपुरीवतंसस्थानीया तन्नगरीशेखरभूता । 'वष्टि भागुरि-' इत्यकारलोपः । 'रत्नं पुंस्यवतंसे वा कर्णपूरेऽपि शेखरे' । वारयुवतिर्वेश्या । अश्रुबिन्दुतारकितपयोधराश्रुबिन्दुभिस्तारकितौ पयोधरौ यस्या इति । तारकाः संजाता इति व्युत्पत्तिः । सनि-
र्वेदं सर्वत्रोपेक्षासहितम् । 'द्वेषः सर्वत्र निर्वेदः' इति वैजयन्ती । कीर्णशिखण्डास्तीर्णभूमिः कीर्णः प्रसृतो यः शिखण्डः केशपाशस्तेनास्तीर्णा कृतास्तरणा भूमिर्ययेति ।
अभ्यवन्दिष्ट । 'वदि अभिवादनस्तुत्योः' इति । तस्मिन्निति । तस्या वाराङ्गनायाः । सानुक्रोशं सकृपम् । सर्वजनस्य यथा कृपा स्यात्तथेत्यर्थः । 'कृपा दयानुकम्पा स्यादनुक्रोशोऽपि इत्यमरः । आर्तिकारणं पीडानिदानम् । सेति । ऐहिकमिह भवं तथा तस्य । अभाजनमपात्रम् । 'सर्वमावपनं भाण्डं पात्रामत्रं च भाजनम्' इत्यमरः । अमुत्र जातमामुष्मिकम् । पारलौकिकायेत्यर्थः । श्वोव-
 
भूषणा ।
 
लोपः । वारयुवतिः । 'वारस्त्री गणिका वेश्या' इत्यमरः ।
तारकितम् । 'तदस्य संजातं तारकादिभ्यः -' (५।२।३६ ) इतीतच् । सनिर्वेदं सर्वत उपेक्षासहितम् । द्वेषः सर्वत्र निर्वेदः' इति । शिखण्डः केशपाशः । 'शिखण्डः केशपाशः स्यात्' इति
वैजयन्ती । मातृप्रमुखो माधवसेनादिः । सानुक्रोशं सकृपम् । सर्वजनस्य यथा कृपा स्यात्तथेत्यर्थः । 'कृपा दयानुकम्पा स्यादनुक्रोशोऽपि' इत्यमरः । कृपालुः । 'स्याद्दयालुः कारुणिकः कृपालुः सूरतः समाः' इत्यमरः । सव्रीडेत्युत्तमत्वार्थम् । स्वभा-
वोक्तिः । मुनेः स्वनिर्वेदप्रत्ययार्थं सविषादत्वम् । महर्षेरावर्जनस्य स्वसुकरत्वज्ञानात्सगौरवत्वम् । अयं जनो मद्रूपो वेश्याजनः । श्वोवसीयाय । 'श्वःश्रेयसं स्यात्
 
लघुदीपिका ।
 
प्योरुपसर्गयोः' इति वचनादकारलोपः । वारयुवतिः । 'वारस्त्री गणिका वेश्या' । सनिर्वेदं सर्वत्रोपेक्षासहितम् । 'द्वेषः सर्वत्र निर्वेदः' । 'शिखण्डः केशपाशः स्यात्' इति वैजयन्ती । सानुक्रोशं सकृपम् । सर्वजनस्य यथा कृपा स्यात्तथेत्यर्थः । 'कृपा दयानुकम्पा स्यादनुक्रोशोऽपि । श्वोवसीयाय । 'श्वःश्रेयसं स्यात्कल्याणं
 
[^१]G.'पुर्यवतंस'.
[^२]G.'अवनिपातम्'.
[^३]G.'गिसेरोत्थाप्य'.
[^४]G.'सुखस्य भाजनम्',