2023-06-02 15:07:31 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् ।
 
७९
 
नामाङ्ग [^१]पुरीवतंसस्थानीया वारयुवतिरश्रुबिन्दुतारकितपयोधरा सनि-
र्वेदमभ्येत्य कीर्ण शिखण्डास्तीर्ण भूमिरभ्यवन्दिष्ट । तस्मिन्नेव

च क्षणे मातृप्रमुखस्तदाप्तवर्गः सानुक्रोशमनुप्रधावितस्तत्रैवावि-

च्छिन्नेन [^२]पातमपतत् । स किल कृपालुस्तं जनमार्द्रया गिरौरा[^३] श्वास्या-
र्तिकारणं तां गणिकामपृच्छत् । सा तु सन्नीव्रीडेव सविषादेव

सगौरवेव चाब्रवीत् ~- 'भगवन्, ऐहिकस्य सुखस्याभाजनं जनो-

ऽयमामुष्मिकाय श्वोवसीयायार्ताभ्युपपत्तिवित्तयोर्भगवत्पादयोर्मूलं
 

 
पदचन्द्रिका ।
 

 
अङ्गपुरीवतंसस्थानीया तन्नगरीशेखरभूता । 'वष्टि भागुरि-' इत्यकारलोपः । 'रत्नं
पुंस्यवतंसे वा कर्णपूरेऽपि शेखरे' । वारयुवतिर्वेश्या । अश्रुबिन्दुतारकितपयोधरा-
श्रुबिन्दुभिस्तारकितौ पयोधरौ यस्या इति । तारकाः संजाता इति व्युत्पत्तिः । सनि-
वें

र्वे
दं सर्वत्रोपेक्षासहितम् । 'द्वेषः सर्वत्र निर्वेदः' इति वैजयन्ती । कीर्णशिखण्डास्ती-
र्णभूमिः कीर्णः प्रसृतो यः शिखण्डः केशपाशस्तेनास्तीर्णा कृतास्तरणा भूमिर्ययेति ।

अभ्यवन्दिष्ट । 'वदि अभिवादनस्तुत्योः' इति । तस्मिन्निति । तस्या वारा-
ङ्गनायाः । सानुक्रोशं सकृपम् । सर्वजनस्य यथा कृपा स्यात्तथेत्यर्थः । 'कृपा
दयानुकम्पा स्यादनुक्रोशोऽपि इत्यमरः । आर्तिकारणं पीडानिदानम् । सेति ।
ऐहिकमिह भवं तथा तस्य । अभाजनमपात्रम् । 'सर्वमावपनं भाण्डं पात्रामत्रं
च भाजनम्' इत्यमरः । अमुत्र जातमामुष्मिकम् । पारलौकिकायेत्यर्थः । श्वोव-

 
भूषणा ।
 

 
लोपः । वारयुवतिः । 'वारस्त्री गणिका वेश्या' इत्यमरः ।
तारकितम् । 'तदस्य संजा
तं तारकादिभ्यः -' (५।२।३६ ) इतीतच् । सनिर्वेदं सर्वत उपेक्षासहितम् । द्वेषः
सर्वत्र निर्वेदः' इति । शिखण्डः केशपाशः । 'शिखण्डः केशपाशः स्यात्' इति

वैजयन्ती । मातृप्रमुखो माधवसेनादिः । सानुक्रोशं सकृपम् । सर्वजनस्य यथा कृपा
स्यात्तथेत्यर्थः । 'कृपा दयानुकम्पा स्यादनुक्रोशोऽपि' इत्यमरः । कृपालुः । 'स्याद्द-
यालुः कारुणिकः कृपालुः सूरतः समाः' इत्यमरः । सन्व्रीडेत्युत्तमत्वार्थम् । स्वभा-
चो

वो
क्तिः । मुनेः स्वनिर्वेदप्रत्ययार्थं सविषादत्वम् । महर्षेरावर्जनस्य स्वसुकरत्वज्ञा-
नात्सगौरवत्वम् । अयं जनो मद्रूपो वेश्याजनः । श्वोवसीयाय । 'श्वःश्रेयसं स्यात्

 
लघुदीपिका ।
 

 
प्योरुपसर्गयोः' इति वचनादकारलोपः । वारयुवतिः । 'वारस्त्री गणिका वेश्या'
सनिर्वेदं सर्वत्रोपेक्षासहितम् । 'द्वेषः सर्वत्र निर्वेदः' । 'शिखण्डः केशपाशः
स्यात्' इति वैजयन्ती । सानुक्रोशं सकृपम् । सर्वजनस्य यथा कृपा स्यात्तथेत्यर्थः ।
'कृपा दयानुकम्पा स्यादनुक्रोशोऽपि । श्वोवसीयाय । 'श्वःश्रेयसं स्यात्कल्याणं
 
T
 
पाठा० -

 
[^
]G.'पुर्यवतंस'.
[^
]G.'अवनिपातम्'.
[^
]G.'गिसेत्थाप्य'.
[^
]G.'सुखस्य
भाजनम्',