This page has not been fully proofread.

उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् ।
 
७९
 
नामाङ्गपुरीवतंसस्थानीया वारयुवतिरश्रुबिन्दुतारकितपयोधरा सनि-
र्वेदमभ्येय कीर्ण शिखण्डास्तीर्ण भूमिरभ्यवन्दिष्ट । तस्मिन्नेव
च क्षणे मातृप्रमुखस्तदाप्तवर्गः सानुक्रोशमनुप्रधावितस्तत्रैवावि-
च्छिन्नेपातमपतत् । स किल कृपालुस्तं जनमार्द्रया गिरौश्वास्या-
र्तिकारणं तां गणिकामपृच्छत् । सा तु सन्नीडेव सविषादेव
सगौरवेव चाब्रवीत् ~ 'भगवन्, ऐहिकस्य सुखस्याभाजनं जनो-
ऽयमामुष्मिकाय श्वोवसीयायार्ताभ्युपपत्तिवित्तयोर्भगवत्पादयोर्मूलं
 
पदचन्द्रिका ।
 
अङ्गपुरीवतंसस्थानीया तन्नगरीशेखरभूता । 'वष्टि भागुरि-' इत्यकारलोपः । 'रत्नं
पुंस्यवतंसे वा कर्णपूरेऽपि शेखरे' । वारयुवतिर्वेश्या । अश्रुबिन्दुतारकितपयोधरा-
श्रुबिन्दुभिस्तारकितौ पयोधरौ यस्या इति । तारकाः संजाता इति व्युत्पत्तिः । सनि-
वेंदं सर्वत्रोपेक्षासहितम् । 'द्वेषः सर्वत्र निर्वेदः' इति वैजयन्ती । कीर्णशिखण्डास्ती-
र्णभूमिः कीर्णः प्रसृतो यः शिखण्डः केशपाशस्तेनास्तीर्णा कृतास्तरणा भूमिर्ययेति ।
अभ्यवन्दिष्ट । 'वदि अभिवादनस्तुत्योः' इति । तस्मिन्निति । तस्या वारा-
जनायाः । सानुक्रोशं सकृपम् । सर्वजनस्य यथा कृपा स्यात्तथेत्यर्थः । 'कृपा
दयानुकम्पा स्यादनुक्रोशोऽपि इत्यमरः । आर्तिकारणं पीडानिदानम् । सेति ।
ऐहिकमिह भवं तथा तस्य । अभाजनमपात्रम् । 'सर्वमावपनं भाण्डं पात्रामत्रं
च भाजनम्' इत्यमरः । अमुत्र जातमामुष्मिकम् । पारलौकिकायेत्यर्थः । श्वोव-
भूषणा ।
 
लोपः । वारयुवतिः । 'वारस्त्री गणिका वेश्या' इत्यमरः । तारकितम् । 'तदस्य संजात
तारकादिभ्यः -' (५।२।३६ ) इतीतच् । सनिर्वेदं सर्वत उपेक्षासहितम् । द्वेषः
सर्वत्र निर्वेदः' इति । शिखण्डः केशपाशः । 'शिखण्डः केशपाशः स्यात्' इति
वैजयन्ती । मातृप्रमुखो माधवसेनादिः । सानुक्रोशं सकृपम् । सर्वजनस्य यथा कृपा
स्यात्तथेत्यर्थः । 'कृपा दयानुकम्पा स्यादनुक्रोशोऽपि' इत्यमरः । कृपालुः । 'स्याद्द-
यालुः कारुणिकः कृपालुः सूरतः समाः' इत्यमरः । सन्रीडेत्युत्तमत्वार्थम् । स्वभा-
चोक्तिः । मुनेः स्वनिर्वेदप्रत्ययार्थ सविषादत्वम् । महर्षेरावर्जनस्य स्वसुकरत्वज्ञा-
नात्सगौरवलम् । अयं जनो मद्रूपो वेश्याजनः । श्वोवसीयाय । 'श्वःश्रेयसं स्यात्
लघुदीपिका ।
 
प्योरुपसर्गयोः' इति वचनादकारलोपः । वारयुवतिः । 'वारस्त्री गणिका वेश्या'
सनिर्वेदं सर्वत्रोपेक्षासहितम् । 'द्वेषः सर्वत्र निर्वेदः' । 'शिखण्डः केशपाशः
स्यात्' इति वैजयन्ती । सानुक्रोशं सकृपम् । सर्वजनस्य यथा कृपा स्यात्तथेत्यर्थः ।
'कृपा दयानुकम्पा स्यादनुक्रोशोऽपि । श्वोवसीयाय । 'श्वःश्रेयसं स्यात्कल्याणं
 
T
 
पाठा० - १ 'पुर्यवतंस'. २ 'अवनिपातम्'. ३ 'गिसेत्थाप्य'. ४ 'सुखस्य
भाजनम्',