2023-06-02 12:04:14 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

म्पाया: 'कश्चिदस्ति तपःप्रभावोत्पन्नदिव्यचक्षुर्मरीचिर्नाम महर्षि: '
इति कुतश्चित्संलपतो जनसमाजादुपलभ्यामुतो बुभुत्सुस्त्वद्गतिं तमु
द्देशमगमम् । न्यशामयं च तस्मिन्नाश्रमे कस्यचिच्चूतपोतकस्य
छायायां कमप्युद्विग्नवर्णं तापसम् । अमुना चातिथिवदुपचरितः
क्षणं विश्रान्तः 'क्कासौ भगवान्मरीचिः, तस्मादहमुपलिप्सुः प्रसङ्ग -
प्रेषितस्य सुहृदो गतिम्, आश्चर्यज्ञानविभवो हि स महर्षि -
र्मह्यां विश्रुतः' इत्यवादिषम् । अथासावुष्णमायतं च [^१निःश्वस्या -
शंसत् – 'आसीत्तादृशो मुनिरस्मिन्नाश्रमे । तमेकदा काममञ्जरी-
 
पदचन्द्रिका ।
 
'संलापो भाषणं मिथः' इत्यमरः । उपलभ्य ज्ञात्वा । अमुतः । मुनेरित्यर्थः । बुभुत्सुर्बोद्धुमिच्छुः । त्वद्गतिम् । त्वन्मार्गमित्यर्थः । तमुद्देशं महर्ष्यधिष्ठितप्रदेशम् । अगमम् । 'गम्ऌ गतौ' इत्यस्य रूपम् । न्यशामयमपश्यम् । उद्विग्नवर्णमुद्विग्नस्य वर्ण
इव वर्ण: कान्तिर्यस्येति स तम् । 'उद्विग्नो भ्रान्तमानसः' इति वैजयन्ती । वर्णः कान्तिः । अमुना तापसेन । उपचरितः सत्कृतः । तस्मान्मरीचेः । उपलिप्सुरुपलब्धुमिच्छुः । प्रसङ्गप्रोषितस्य केनापि कारणेन गतस्य । 'प्रसङ्गः कारणं हेतुः' इति वैजयन्ती । आश्चर्यश्चमत्कारकारी ज्ञानविभवो ज्ञानसामर्थ्यं यस्य तथा । विश्रुतो
विख्यातः । अवादिषम् । उक्तवानित्यर्थः । अथेति । असौ तापसः । तं महर्षिम् ।
 
भूषणा ।
 
तदन्वेषणाय दिक्षु प्रतस्थे । राजवाहनोऽपि मित्राण्यनुपलभ्य स्वेच्छया महीं विचचारेति प्रसङ्गः । असुरविवरं पातालम् । 'अधोलोकस्तु पातालं दैत्यरन्ध्रं रसातलम्' इत्यजयः । संलपतोऽन्योन्यं भाषमाणान् । 'संलापो भाषणं मिथः' इत्य-
मरः । उपलभ्य ज्ञावा । बुभुत्सुर्बोद्धुमिच्छुः । न्यशामयमपश्यम् । 'शमोऽदर्शने' इति मित्वनिषेधः । चूत आम्रः । 'आम्रवतो रसालोऽसौ इत्यमरः । उद्विग्नो भ्रान्तमानसस्तस्य वर्णः कान्तिस्तद्वत्कान्तिर्यस्य सः । उपलिप्सुरुपलब्धुमिच्छुः ।
प्रसङ्गप्रोषितस्य कारणेन गतस्य । 'प्रसङ्गः कारणं हेतुः' इति वैजयन्ती । अवतंसस्थानीया शेखरसदृशी । 'रत्नं पुंस्यवतंसो वा कर्णपूरेऽपि शेखरे' । क्वचित् 'वतंसस्थानीया' इति पाठः । तत्र 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः' इत्यकार-
 
लघुदीपिका ।
 
जयः । संलपतोऽन्योन्यं भाषमाणस्य । 'संलापो भाषणं मिथः' । उपलभ्य ज्ञात्वा । बुभुत्सुर्बोद्धुमिच्छुः । न्यशामयमपश्यम् । उद्विग्नवर्णम् । उद्विग्नो भ्रान्तमनसो वर्णः कान्तिः । उद्विग्नस्य वर्ण इव वर्णो यस्य सः । उपलिप्सुरुपलब्धुमिच्छुः । प्रसङ्ग -
प्रोषितस्य कारणेन गतस्य । 'प्रसङ्गः कारणं हेतुः' इति वैजयन्ती । वतंसस्थानीया शेखरसदृशी । 'रत्नं पुंस्यवतंसो वा कर्णपूरेऽथ शेखरे' । 'वष्टि भागुरिरल्लोपमवा-
 
[^१]G. 'आशशंसे'.