This page has not been fully proofread.

दशकुमारचरितम् ।
 
[ द्वितीयः
+पाया: 'कञ्चिदस्ति तपःप्रभावोत्पन्नदिव्यचक्षुर्मरीचिर्नाम महर्षि: '
इति कुतश्चित्संलपतो जनसमाजादुपलभ्यामुतो बुभुत्सुस्त्वद्गतिं तमु -
देशमगमम् । न्यशामयं च तस्मिन्नाश्रमे कस्यचिच्चू तपोतकस्य
छायायां कमप्युद्विग्नवर्ण तापसम् । अमुना चातिथिवदुपचरितः
क्षणं विश्रान्तः 'क्कासौ भगवान्मरीचिः, तस्मादहमुपलिप्सुः प्रसङ्ग -
घोषितस्य सुहृदो गतिम्, आश्चर्यज्ञानविभवो हि स महर्षि -
र्मयां विश्रुतः' इत्यवादिषम् । अथासावुष्णमायतं च निःश्वस्यां -
शंसत् – 'आसीत्तादृशो मुनिरस्मिन्नाश्रमे । तमेकदा काममञ्जरी-
पदचन्द्रिका ।
 
'संलापो भाषणं मिथः' इत्यमरः । उपलभ्य ज्ञात्वा । अमुतः । मुनेरित्यर्थः । बुभुत्सु
र्वोद्धुमिच्छुः । त्वद्गतिम् । त्वन्मार्गमित्यर्थः । तमुद्देशं महर्ष्यधिष्ठितप्रदेशम् । अग-
मम् । 'गम्ऌ गतौ' इत्यस्य रूपम् । न्यशामयमपश्यम् । उद्विग्नवर्णमुद्विमस्य वर्ण
इव वर्ण: कान्तिर्यस्येति स तम् । 'उद्विग्नो भ्रान्तमानसः' इति वैजयन्ती । वर्णः
कान्तिः । अमुना तापसेन । उपचरितः सत्कृतः । तस्मान्मरीचेः । उपलिप्सुरुप-
लब्धुमिच्छुः । प्रसङ्गप्रोषितस्य केनापि कारणेन गतस्य । 'प्रसङ्गः कारणं हेतुः' इति
चैजयन्ती । आश्चर्यश्चमत्कारकारी ज्ञानविभवो ज्ञानसामर्थ्य यस्य तथा । विश्रुतो
विख्यातः । अवादिषम् । उक्तवानित्यर्थः । अथेति । असौ तापसः । तं महर्षिम् ।
 
:।
 
भूषणा ।
 
तदन्वेषणाय दिक्षु प्रतस्थे । राजवाहनोऽपि मित्राण्यनुपलभ्य स्वेच्छया महीं विच-
चारेति प्रसङ्गः । असुरविवरं पातालम् । 'अधोलोकस्तु पातालं दैत्यरन्धं रसात-
लम्' इत्यजयः । संलपतोऽन्योन्यं भाषमाणान् । 'संलापो भाषणं मिथः' इत्य-
मरः । उपलभ्य ज्ञावा । बुभुत्सुर्बोद्धुमिच्छुः । न्यशामयमपश्यम् । 'शमोऽदर्शने'
इति मित्वनिषेधः । चूत आम्रः । 'आम्रवतो रसालोऽसौ इत्यमरः । उद्विग्मो
भ्रान्तमानसस्तस्य वर्णः कान्तिस्तद्वत्कान्तिर्यस्य सः । उपलिप्सुरुपलब्धुमिच्छुः ।
प्रसङ्गप्रोषितस्य कारणेन गतस्य । 'प्रसङ्गः कारणं हेतुः' इति वैजयन्ती । अवतंस -
स्थानीया शेखरसदृशी । 'रत्नं पुंस्यवतंसो वा कर्णपूरेऽपि शेखरे' । क्वचित् 'वतं-
सस्थानीया' इति पाठः । तत्र 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः' इत्यकार-
लघुदीपिका ।
 
जयः । संलपतोऽन्योन्यं भाषमाणस्य । 'संलापो भाषणं मिथः' । उपलभ्य ज्ञात्वा ।
बुभुत्सुर्बोद्धुमिच्छुः । न्यशामयमपश्यम् । उद्विग्नवर्णम् । उद्विग्नो भ्रान्तमनसो
वर्णः कान्तिः । उद्विमस्य वर्ण इव वर्णो यस्य सः । उपलिप्सुरुपलब्धुमिच्छुः । प्रसङ्ग -
प्रोषितस्य कारणेन गतस्य । 'प्रसङ्गः कारणं हेतुः' इति वैजयन्ती । वतंसस्थानीया
शेखरसदृशी । 'रत्नं पुंस्यवतंसो वा कर्णपूरेऽथ शेखरे' । 'वष्टि भागुरिरल्लोपमवा-
पाठा०-१ 'आशशंसे'.