This page has not been fully proofread.

श्रीः ।
 
१८८९ तमे ख्रिस्ताब्दे मुद्रितद्वितीयावृत्तेः
प्रस्तावना ।
 
न हि न विदितं गैर्वाणीविज्ञैः 'कविर्दण्डिः कविर्दण्डिः कविर्द-
ण्डिर्न संशयः ॥ इति वाग्देवीप्रसादितकवित्वपदवीमधिष्ठितेन महा-
कविना दण्डिनाम्ना निर्मितदशकुमारचरितमनुदिनं वाग्विलासरसिकैः
पठ्यते पाठ्यते चेति । तच्चेदं चरितं बहुशो मुद्रणमधिकृत्य प्रका-
शितमासीत् । अस्य चालेयटिप्पणीभिः सह प्रथममुद्रणप्रकाशने
१८४६ तमे ख्रिस्ताब्दे लण्डन्नगर्या प्रोफेसर् होरेस् हेमन् उइ-
ल्सन्महाशयै राजाश्रयेण बभूवतुः । पश्चात्कलिकातानगर्यां बाबू
भवनचन्द्र वैसाकमहाशयैः १८६८,१८७० तमे च ख्रिस्ताब्दे
केवलं मूलमेवाङ्कितम् । तदनु प्रायशो १८७३ तमे ख्रिस्ताब्दे
प्रोफेसर तारानाथ तर्कवाचस्पतिमहाभिज्ञैः काभिश्चित्संस्कृतटि-
प्पणीभिः सह कलिकातानगर्यामभिनवावृत्त्यङ्कितम् । पूर्वोकेषु सर्वे-
ष्वपि संस्करणेषु पूर्वपीठिकायाः पञ्चोच्छ्वासा दशकुमारचरितस्याष्टो-
च्छासाश्चेत्येतावन्मात्रग्रन्थो वरीवर्ति । मुम्बय्यां १८७२ तमे ख्रिस्ता-
ब्दे डॉ. बुल्लरमहाशयै राजकीयाश्रयेणाङ्ग्लेयटिप्पणीभिः सहाङ्कित -
मासीत् । अमिंध पूर्वपीठिकायाः पञ्चोच्छ्वासा दशकुमारचरितस्य
प्रथमञ्युच्छ्वासाश्चोपलभ्यन्ते, चरमभागस्त्वधुनाप्यप्रकाशित एवास्ति ।
परं चैतच्चरितमधिकृत्य प्रवृत्तासु पदचन्द्रिका - भूषणा-सारांश -
टीका चेति तिसृषु टीकाखघिगताखपि कश्चिदेवांशो बुल्लरमहाशयै-
ष्टिप्पण्यां प्रदर्शितः । लब्धास्वपि समग्रटीकास महाशयैः किमिति
ता न मुद्रिता इति न ज्ञायते ।
 
g
 
अस्माभिस्तु प्रकाशितावृत्तावुपलब्धाति साधनानि-
पूर्वपीठिका
 
पूर्वोक्तसर्वाण्युप्यङ्कितानि पुस्तकानि, कै, वें. रा.
रा. निरन्तरोपाह्नगोविन्दशास्त्रिां मूलपुस्तकप्रतिकृतिरूपं . वे. रा.