This page has not been fully proofread.

उच्छ्वासः ] पदचन्द्रिका - भूषणा- लघुदीपिकासहितम् ।
 
योश्चरितमनुवर्ण्य सुहृदामपि वृत्तान्तं क्रमेण श्रोतुं कृतप्रस्ताव-
स्तांश्च तदुक्तावन्वयुङ्क । तेषु प्रथमं प्राह स्म किलापहारवर्मा
--
इति श्रीदण्डिनः कृतौ दशकुमारचरिते राजवाहनचरितं
नाम प्रथम उच्छ्रासः ।
 
द्वितीयोच्छ्रासः ।
 
'देव, त्वयि तदावतीर्णे द्विजोपकारायासुरविवरं त्वदन्वेषण-
प्रसृते च मित्रगणेऽहमपि महीमटन्नङ्गेषु गङ्गातटे बहिश्च-
पदचन्द्रिका ।
 
षाम् । कृतप्रस्तावः कृतोपक्रमः । तदुतौ सुहृद्वृत्तान्तोक्तौ । अन्वयुङ्ग । योजितवा-
नित्यर्थः । तेषु सुहृत्सु मध्ये प्रथममपहारवर्मा प्राह स्मेत्यन्वयः ॥
 
इति श्रीदशकुमारचरितव्याख्यायां पदचन्द्रिका
भिधायां प्रथम उच्वासः ।
 
किमाहापहारवर्मा—देवेति । असुरविवरं दैत्यविवरम् । 'सुषिरं विवरं बिलम्'
इत्यमरः । प्रसृते परितश्चरिते । दिव्यचक्षुरतीन्द्रियद्रष्टा । संलपतो मिथो वदतः ।
 
भूषणा ।
 
कुमारत्रयकथासंग्रहः । अत एवाष्टावेवोच्छ्वासाः ॥ इति श्रीदशकुमार-
चरितटीकायां भूषणाभिधायां प्रथम उच्छ्रासः ॥
 
राजवाहनः कदाचित्पितरमामय सुहृद्भिः सह विन्ध्येऽटन् शिवालयमद्राक्षीत् ।
तत्रत्यादेव विवरान्निर्गत्य शिवार्चनं कुर्वतीं नमुचिकन्यां प्रेक्ष्य कामपीडया-
तिकृशं द्विजं तत्रापश्यत् । विश्राममिषात्ससुहृत्तत्र स्थितः, कचित्प्रयाते मित्र-
गणे द्विजेन स्ववृत्तान्तोऽस्मै निवेदितः । अथ रात्रौ ससुहृद्गणः सद्विजश्च तत्रैव
सुष्वाप । अथार्धरात्रे निर्गतां तामीशमर्चयित्वा यान्तीं तद्वारि द्विजोपकाराय देवा-
लयबिलं गतमात्मानं मित्रबोधाय विलिख्यानुययौ । तत्र स्वर्णपुरे कन्याशत-
वृतां तां पर्यङ्कस्थां 'का त्वम्' इत्याद्यन्वयुक्त राजवाहनः । 'देव, विष्णुना नमुचौ
सालोक्यं नीते मां समाश्वास्येदमभिहितम् - 'योऽत्र ज्वलनकुण्डे प्रवेक्ष्यति स ते
भर्ता' इत्यनुजगाद सा । ततो द्विजेन ज्वलनकुण्डे प्रविश्य सोढा । तद्वृत्तं च राज-
वाहनः क्षुत्पिपासाहरं मणिमादाय बहिर्ययौ । मित्रगणस्तु प्रातस्तं तत्रानुपलक्ष्य
लघुदीपिका ।
 
रोहिणो वटः' इति वैजयन्ती । अनुयुक्तः पृष्टः । 'प्रश्ने स्यादनुयोगः' इति
हलायुधः ॥ इति लघुदीपिकायां प्रथम उच्वासः ॥
 
असुरविवरं पातालम् । 'अधोलोकस्तु पातालं दैत्यरन्धं रसातलम्' इत्य-