2023-06-02 11:39:11 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
दवततार । प्रथमसमवतीर्णेनापहारवर्मणा च स्वहस्तसत्वरसमी-
कृते [^१]मातङ्ग इव भागीरथीपुलिनमण्डले सुखं निषसाद ।
तथा निषण्णं च तमुपहारवर्मार्थपालप्रमतिमित्रगुप्त- मन्त्रगुप्तविश्रुतैर्मैथिलेन च प्रहारवर्मणा, काशीभर्त्रा च कामपालेन, चम्पेश्वरेण सहवर्मणा, सहोपागत्य धनमित्र: प्रणिपपात । देवोऽपि हर्षाविद्धमभ्युत्थितः 'कथं समस्त एष मित्रगणः समागतः, को नामायमभ्युदयः' इति कृतयथोचितोपचारा [^२]न्निर्भरतरं परिरेभे । काशीपतिमैथिलाङ्गराजांश्च सुहृन्निवेदितान्पितृवदपश्यत् । तैश्च हर्षकम्पितपलितं [^३]सरभसोपगूढः परमभिननन्द । ततः प्रवृत्तासु प्रीतिसंकथासु प्रियवयस्यगणानुयुक्तः स्वस्य च सोमदत्तपुष्पोद्भव-
पदचन्द्रिका ।
प्रथमेति । स्वहस्तेनात्मकरेण । सत्वरं सवेगं । समीकृते समतां प्रापिते । निषसाद 'षद्ऌ विशरणगत्यवसाद -' इत्यस्य रूपम् । तथेति । तं राजवाहनम् । उपहारवर्मादिविश्रुतान्त्यैः षड्भिर्दशकुमारसमूहैः । मैथिलेन मिथिळाधिपेन । प्रहारवर्मणा
कामपालेन सिंहवर्मणा सह धनमित्रः । धनमित्रसमूहान्तर्वर्ती काशीपतिर्मैथिलोऽङ्गराजस्तै स्त्रिभिः प्रहारवर्मकामपाल- सिंहवर्मभिः । निर्भरतरं दृढतरम् । तत इति । सोमदत्तपुष्पोद्भवयोश्चरितमाचरणं पूर्वपीठिकायामुक्तमनुवर्ण्य । सुहृदां सर्वे-
भूषणा ।
च्छतु । रोहिणो वटः । 'न्यग्रोधो रोहिणो वटः' इति वैजयन्ती । उपहारवर्मेत्यादि । राजहंसस्य त्रयोऽमात्या धर्मपालसितवर्मपद्मोद्भवाः । धर्मपालस्य सुमन्त्रसुमित्रकामपालाः सुताः । सितवर्मणः सुमतिसत्यवर्माणौ सुतौ पद्मोद्भवस्य
सुश्रुतरत्नोद्भवौ सुतौ । तेषु पितॄणां मरणोत्तरं सुमन्त्रमुमित्रसुश्रुतसुमतयः पितॄणामधिकारे स्थिताः । कामपालः क्वाप्यगमत् । रत्नोद्भवः समुद्रतरणमकरोत् । सत्यवर्मा देवयात्रामकरोत् । सुमतिसुमन्त्रसुमित्रसुश्रुतानां प्रमतिमन्त्रगुप्तमित्रगुप्तविश्रुताख्याः पुत्राः । इत्येतेषां संबन्धः । हर्षाविद्धमिति क्रियाविशेषणम् । उत्पीडिततरं
गाढं यथा स्यात्तथा । हर्षकम्पितपलितम् क्रियाविशेषणम् । अनुयुक्तः पृष्टः । 'प्रश्नोऽनुयोगः पृच्छा च' इत्यमरः । सोमदत्तपुष्पोद्भवयोरिति । एतेनात्र
[^१]G. 'मातङ्ग इव', 'स्फाटिकमय इव'.
[^२]G. 'अनुत्पीडिततरम्'.
[^३]G. 'सहसोपगूढः'.
कृते [^१]मातङ्ग इव भागीरथीपुलिनमण्डले सुखं निषसाद ।
तथा निषण्णं च तमुपहारवर्मार्थपालप्रमतिमित्रगुप्त- मन्त्रगुप्तविश्रुतैर्मैथिलेन च प्रहारवर्मणा, काशीभर्त्रा च कामपालेन, चम्पेश्वरेण सहवर्मणा, सहोपागत्य धनमित्र: प्रणिपपात । देवोऽपि हर्षाविद्धमभ्युत्थितः 'कथं समस्त एष मित्रगणः समागतः, को नामायमभ्युदयः' इति कृतयथोचितोपचारा [^२]न्निर्भरतरं परिरेभे । काशीपतिमैथिलाङ्गराजांश्च सुहृन्निवेदितान्पितृवदपश्यत् । तैश्च हर्षकम्पितपलितं [^३]सरभसोपगूढः परमभिननन्द । ततः प्रवृत्तासु प्रीतिसंकथासु प्रियवयस्यगणानुयुक्तः स्वस्य च सोमदत्तपुष्पोद्भव-
पदचन्द्रिका ।
प्रथमेति । स्वहस्तेनात्मकरेण । सत्वरं सवेगं । समीकृते समतां प्रापिते । निषसाद 'षद्ऌ विशरणगत्यवसाद -' इत्यस्य रूपम् । तथेति । तं राजवाहनम् । उपहारवर्मादिविश्रुतान्त्यैः षड्भिर्दशकुमारसमूहैः । मैथिलेन मिथिळाधिपेन । प्रहारवर्मणा
कामपालेन सिंहवर्मणा सह धनमित्रः । धनमित्रसमूहान्तर्वर्ती काशीपतिर्मैथिलोऽङ्गराजस्तै