2023-06-02 11:36:22 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

७६
 
शकुमारचरितम् ।
 
[ प्रथमः
 
दु
वततार । प्रथमसमवतीर्णेनापहारवर्मणा च स्वहस्तसत्वरसमी-

कृते मां[^१]मातङ्ग इव भागीरथीपुलिनमण्डले सुखं निषसाद ।

तथा निषण्णं च तमुपहारवर्मार्थपालप्रमति मित्रगुप्त मन्त्रगुप्तविश्रुतैमैं-
र्मैथिलेन च प्रहारवर्मणा, काशीभर्त्रा च कामपालेन, चम्पेश्वरेण
सहवर्मणा, सहोपागत्य धनमित्र: प्रणिपपात । देवोऽपि हर्षाविद्ध-
मभ्युत्थितः 'कथं समस्त एष मित्रगणः समागतः, को नामायम-
भ्युदयः' इति कृतयथोचितोपचारा [^२]न्निर्भरतरं परिरेभे । काशी-
पतिमैथिलाङ्गराजांश्च सुहृन्निवेदितान्पितृवदपश्यत् । तैश्च हर्षक-
म्पितपलितं सै[^३]सरभसोपगूढः परमभिननन्द । ततः प्रवृत्तासु प्रीति
संकथासु प्रियवयस्यगणानुयुक्तः स्वस्य च सोमदत्तपुष्पोद्भव-

 
पदचन्द्रिका ।
 

 
प्रथमेति । स्वहस्तेनात्मकरेण । सत्वरं सवेगं । समीकृते समतां प्रापिते । निषसाद
'बद्ध
'षद्ऌ विशरणगत्यवसाद -' इत्यस्य रूपम् । तथेति । तं राजवाहनम् । उपहारव-
र्मादिविश्रुतान्त्यैः षड्भिर्दशकुमारसमूहैः । मैथिलेन मिथिळाधिपेन । प्रहारवर्मंणा

कामपालेन सिंहवर्मणा सह धनमित्रः । धनमित्रसमूहान्तर्वर्ती काशीपतिर्मैथि-
लोऽङ्गराजस्तै स्त्रिभिः प्रहारवर्मकामपाल सिसिंहवर्मभिः । निर्भरतरं दृढतरम् । तत
इति । सोमदत्तपुष्पोद्भवयोश्चरितमाचरणं पूर्वपीठिकायामुक्तमनुवर्ण्य । सुहृदां सर्वे-

 
भूषणा ।
 

 
च्छतु । रोहिणो वटः । 'न्यग्रोधो रोहिणो वटः' इति वैजयन्ती । उपहारव-
र्मेत्यादि । राजहंसस्य त्रयोऽमात्या धर्मपालसितवर्मपद्मोद्भवाः । धर्मपालस्य
सुम
सुमन्त्रसुमित्रकामपालाः सुताः । सितवर्मणः सुमतिसत्यवर्माणौ सुतौ पद्मोद्भवस्य

सुश्रुतरलोत्नोद्भवौ सुतौ । तेषु पितॄणां मरणोत्तरं सुमन्त्रमुमित्रसुश्रुतसुमतयः पितॄणा-
मधिकारे स्थिताः । कामपालः क्वाप्यगमत् । रत्नोद्भवः समुद्रतरणमकरोत् । सत्य-
वर्मा देवयात्रामकरोत् । सुमतिसुमन्त्र सुमित्रसुश्रुतानां प्रमतिमन्त्रगुप्तमित्रगुप्तविश्रु-
ताख्याः पुत्राः । इत्येतेषां संबन्धः । हर्षाविद्धमिति क्रियाविशेषणम् । उत्पीडिततरं

गाढं यथा स्यात्तथा । हर्षकम्पितपलितम् क्रियाविशेषणम् । अनुयुक्तः पृष्टः ।
'प्रश्नोऽनुयोगः पृच्छा च' इत्यमरः । सोमदत्तपुष्पोद्भवयोरिति । एतेनात्र
 
पाठा० -

 
[^
]G. 'मातङ्ग इव', 'स्फाटिकमय इव'.
[^
]G. 'अनुत्पीडिततरम्'.

[^
]G. 'सहसोपगूढः'.