This page has not been fully proofread.

७६
 
दशकुमारचरितम् ।
 
[ प्रथमः
 
दुवततार । प्रथमसमवतीर्णेनापहारवर्मणा च स्वहस्तसत्वरसमी-
कृते मांतङ्ग इव भागीरथीपुलिनमण्डले सुखं निषसाद ।
तथा निषण्णं च तमुपहारवर्मार्थपालप्रमति मित्रगुप्त मन्त्रगुप्तविश्रुतैमैं-
थिलेन च प्रहारवर्मणा, काशीभर्त्रा च कामपालेन, चम्पेश्वरेण
सहवर्मणा, सहोपागत्य धनमित्र: प्रणिपपात । देवोऽपि हर्षाविद्ध-
मभ्युत्थितः 'कथं समस्त एष मित्रगणः समागतः, को नामायम-
भ्युदयः' इति कृतयथोचितोपचारान्निर्भरतरं परिरेभे । काशी-
पतिमैथिलाङ्गराजांश्च सुहृन्निवेदितान्पितृवदपश्यत् । तैश्च हर्षक-
म्पितपलितं सैरभसोपगूढः परमभिननन्द । ततः प्रवृत्तासु प्रीति
संकथासु प्रियवयस्यगणानुयुक्तः स्वस्य च सोमदत्तपुष्पोद्भव-
पदचन्द्रिका ।
 
प्रथमेति । खहस्तेनात्मकरेण । सत्वरं सवेगं । समीकृते समतां प्रापिते । निषसाद
'बद्ध विशरणगत्यवसाद -' इत्यस्य रूपम् । तथेति । तं राजवाहनम् । उपहारव-
र्मादिविश्रुतान्त्यैः षड्भिर्दशकुमारसमूहैः । मैथिलेन मिथिळाधिपेन । प्रहारवर्मंणा
कामपालेन सिंहवर्मणा सह धनमित्रः । धनमित्रसमूहान्तर्वती काशीपतिर्मैथि-
लोऽङ्गराजस्तै स्त्रिभिः प्रहारवर्मकामपाल सिहवर्मभिः । निर्भरतरं दृढतरम् । तत
इति । सोमदत्तपुष्पोद्भवयोश्चरितमाचरणं पूर्वपीठिकायामुक्तमनुवर्ण्य । सुहृदां सर्वे-
भूषणा ।
 
च्छतु । रोहिणो वटः । 'न्यग्रोधो रोहिणो वटः' इति वैजयन्ती । उपहारव-
त्यादि । राजहंसस्य त्रयोऽमात्या धर्मपालसितवर्मपद्मोद्भवाः । धर्मपालस्य
सुमसुमित्रकामपालाः सुताः । सितवर्मणः सुमतिसत्यवर्माणौ सुतौ पद्मोद्भवस्य
सुश्रुतरलोद्भवौ सुतौ । तेषु पितॄणां मरणोत्तरं सुमन्त्रमुमित्रसुश्रुतसुमतयः पितॄणा-
मधिकारे स्थिताः । कामपालः क्वाप्यगमत् । रत्नोद्भवः समुद्रतरणमकरोत् । सत्य-
वर्मा देवयात्रामकरोत् । सुमतिसुमन्त्र सुमित्रसुश्रुतानां प्रमतिमन्त्रगुप्तमित्रगुप्तविश्रु-
ताख्याः पुत्राः । इत्येतेषां संबन्धः । हर्षाविद्धमिति क्रियाविशेषणम् । उत्पीडिततरं
गाढं यथा स्यात्तथा । हर्षकम्पितपलितम् क्रियाविशेषणम् । अनुयुक्तः पृष्टः ।
'प्रश्नोऽनुयोगः पृच्छा च' इत्यमरः । सोमदत्तपुष्पोद्भवयोरिति । एतेनात्र
 
पाठा० - १ 'मातङ्ग इव', 'स्फाटिकमय इव'. २ 'अनुत्पीडिततरम्'.
३ 'सहसोपगूढः'.