2023-06-01 17:43:37 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

उच्छ्वास: ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितशस्त्रं वर्तते । किमन्यत्कृत्यम्
 
शस्त्रं वर्तते । किमन्यत्कृत्यम्
' इति । हृष्टस्तु व्याजहारापहार-

वर्मा – 'देव, दृष्टिदानेनानुगृह्यतामयमाज्ञाकरः । [^१]सोऽयमहमेव

ह्यमुना रूपेण धनमित्राख्यया चान्तरितो मन्तव्यः । स एवायं निर्ग-

मय्य बन्धनादङ्गराजमपवर्जितं च कोशवाहनमेकीकृत्यास्मद्गृहोह्ये- णा-
मुना सह राजन्यकेनैकान्ते सुखोपविष्टमिह देवमुपतिष्ठतु यदि

न दोषः' इति । देवोऽपि 'यथा ते रोचते इति तमाभाष्य

गत्वा च तन्निर्दिष्टेन मार्गेण नगराद्हिरतिमहतो रोहिणद्रुमस्य

[^२]
कस्यचित्क्षौमावदातसैकते गङ्गातरङ्गपवनपातशीतले तले द्विरदा-

 
पदचन्द्रिका ।
 

 
सोऽयमहमेव हीति । धनमिन्त्राख्ययैतन्नाम्ना । अन्तरितः । भिन्न इत्यर्थः ।
स एव धनमित्रोऽङ्गराजं सिंहवर्माणं बन्धनान्निर्गमय्य निष्काक्रामय्य । अपवर्जितम् ।
इतस्ततो गतमित्यर्थः । कोशवाहनमेकीकृत्य । एकत्र कृत्वेत्यर्थः । अस्मद्गुह्ये-
णास्मत्पक्षस्थेन । 'गृह्यः पक्षस्थ उच्यते' इति वैजयन्ती । राजन्यकेन क्षत्रियस
मूहेन । सह साकम् । देवम् । लात्वामिति यावत् । उप समीपे तिष्ठतु । देव इति ।
देवो राजवाहनः । त इति तुभ्यम् । 'रुच्यर्थानां -' (१३३) इति चतुर्थी । तमप-
हारवर्माणम् । तन्निर्दिष्टेनापहारवर्मकथितेन मार्गेण । रोहिणद्रुमस्य वटवृक्षस्य । 'वट-
वृक्षस्तु रोहिणः' इति वैजयन्ती । क्षौमवदवदातं शुद्धं यत्सैकतं सिकतामयं तस्मिन् ।
 

 
भूषणा ।
 

 
हितौ च निगूढगुल्फौ कूर्मोन्नतौ च चरणौ मनुजेश्वरस्य ॥" इति विस्तरस्तु वरा-
हसंहितायां द्रष्टव्यः । कृतहस्ततया सुशिक्षितत्वेन । 'कृतहस्तः सुप्रयोगविशिखः
कृतपुङ्खवत्' इत्यमरः । प्रत्ययात् ज्ञानात् । 'प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु'
इति । संनिपातितमानीतम् । अरिबलं चण्डवर्मसैन्यम् । अपवर्जितं युद्धसमये
शत्रुणा गृहीतम् । कोशवाहनं धनं हस्त्यश्वादि चैकीकृत्य देवमुपतिष्ठत्वित्यन्वयः ।
कोशोऽस्त्री कुड्मले शास्त्रे अर्थेऽनीकेऽर्थमन्दिरे' इति भागुरिः । अस्मद्रुगृह्येण ।

'गृह्यः पक्षस्थ उच्यते' इति हलायुधः । इह गङ्गातीरे । उपतिष्ठतु समीपमाग-

 
लघुदीपिका ।
 

 
मणिविशेषः । 'अतिरिक्तं सुपीतं हि कुरविन्दमुदाहृतम्' । कृतहस्ततया शिक्षित-
हस्ततया । 'शिक्षिते कृतहस्तवत्' इति
भागुरिः । प्रत्ययात् ज्ञानात् । 'प्रत्य-
योऽधीनशपथज्ञानविश्वासहेतुषु' । कोशवाहनं सेनाश्चतुरङ्गाश्च । 'कोशोऽस्त्री

कुस्यड्मले शास्त्रे अर्थेऽनीके च मन्दिरे' इति भागुरिः । अस्मद्गुगृह्येण । 'गृह्यः
पक्षस्थ उच्यते' इति हलायुधः । रोहिणद्रुमस्य वटवृक्षस्य । न्यग्रोधो-
पाठा०-

 
[^
]G. 'सोऽयमप्यहमेव' 'सोऽयमेवाद्य'.
[^
]G. 'कस्यचिन्मूले'.