2023-05-18 02:10:11 by ambuda-bot
This page has not been fully proofread.
उच्छ्वास: ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् ।
शस्त्रं वर्तते । किमन्यत्कृत्यम् इति । हृष्टस्तु व्याजहारापहार-
वर्मा – 'देव, दृष्टिदानेनानुगृह्यतामयमाज्ञाकरः । सोऽयमहमेव
ह्यमुना रूपेण धनमित्राख्यया चान्तरितो मन्तव्यः । स एवायं निर्ग-
मय्य बन्धनादङ्गराजमपवर्जितं च कोशवाहनमेकीकृत्यास्मद्गृहोणा-
मुना सह राजन्यकेनैकान्ते सुखोपविष्टमिह देवमुपतिष्ठतु यदि
न दोषः' इति । देवोऽपि 'यथा ते रोचते इति तमाभाष्य
गत्वा च तन्निर्दिष्टेन मार्गेण नगराद्वहिरतिमहतो रोहिणद्रुमस्य
कस्यचित्क्षौमावदातसैकते गङ्गातरङ्गपवनपातशीतले तले द्विरदा-
पदचन्द्रिका ।
सोऽयमहमेव हीति । धनमिन्त्राख्ययैतन्नाम्ना । अन्तरितः । भिन्न इत्यर्थः ।
स एव धनमित्रोऽङ्गराजं सिंहवर्माणं बन्धनान्निर्गमय्य निष्कामय्य । अपवर्जितम् ।
इतस्ततो गतमित्यर्थः । कोशवाहनमेकीकृत्य । एकत्र कृत्वेत्यर्थः । अस्मद्गुह्ये-
णास्मत्पक्षस्थेन । 'गृह्यः पक्षस्थ उच्यते' इति वैजयन्ती । राजन्यकेन क्षत्रियस
मूहेन । सह साकम् । देवम् । लामिति यावत् । उप समीपे तिष्ठतु । देव इति ।
देवो राजवाहनः । त इति तुभ्यम् । 'रुच्यर्थानां -' (११४१३३) इति चतुर्थी । तमप-
हारवर्माणम् । तन्निर्दिष्टेनापहारवर्मकथितेन मार्गेण । रोहिणद्रुमस्य वटवृक्षस्य । 'वट-
वृक्षस्तु रोहिणः' इति वैजयन्ती । क्षौमवदवदातं शुद्धं यत्सैकतं सिकतामयं तस्मिन् ।
भूषणा ।
हितौ च निगूढगुल्फौ कूर्मोन्नतौ च चरणौ मनुजेश्वरस्य ॥" इति विस्तरस्तु वरा-
हसंहितायां द्रष्टव्यः । कृतहस्ततया सुशिक्षितत्वेन । 'कृतहस्तः सुप्रयोगविशिखः
कृतपुङ्खवत्' इत्यमरः । प्रत्ययात् ज्ञानात् । 'प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु'
इति । संनिपातितमानीतम् । अरिबलं चण्डवर्मसैन्यम् । अपवर्जितं युद्धसमये
शत्रुणा गृहीतम् । कोशवाहनं धनं हस्त्यश्वादि चैकीकृत्य देवमुपतिष्ठत्वित्यन्वयः ।
कोशोऽस्त्री कुझले शास्त्रे अर्थेऽनीकेऽर्थमन्दिरे' इति भागुरिः । अस्मद्रुह्येण ।
'गृह्यः पक्षस्थ उच्यते' इति हलायुधः । इह गङ्गातीरे । उपतिष्ठतु समीपमाग-
लघुदीपिका ।
मणिविशेषः । 'अतिरिक्तं सुपीतं हि कुरविन्दमुदाहृतम्' । कृतहस्ततया शिक्षित-
हस्ततया । 'शिक्षिते कृतहस्तवत्' इति भागुरिः । प्रत्ययात् ज्ञानात् । 'प्रत्य-
योऽधीनशपथज्ञानविश्वासहेतुषु' । कोशवाहनं सेनाश्चतुरङ्गाश्च । 'कोशोऽस्त्री
कुस्यले शास्त्रे अर्थेऽनीके च मन्दिरे' इति भागुरिः । अस्मद्गुह्येण । 'गृह्यः
पक्षस्थ उच्यते इति हलायुधः । रोहिणद्रुमस्य वटवृक्षस्य । न्यग्रोधो-
पाठा०-१ 'सोऽयमप्यहमेव' 'सोऽयमेवाद्य'. २ 'कस्यचिन्मूले'.