2023-06-01 17:33:16 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

[^१]अनन्तरं च कश्चित्कर्णिकारगौरः कुरुविन्दसवर्णकुन्तलः
कमलकोमलपाणिपादः कर्णचुम्बिदुग्धधवलस्निग्धनीललोचनः कटितटनिविष्टरत्ननख: पट्टनिवसनः कृशाकृशोदरोरःस्थलः कृत-
हस्ततया रिपुकुलमिषुवर्षेणा[^२]भिवर्षन्पादाङ्गुष्ठनिष्ठुरावघृष्टकर्णमूलेन
प्रजविना गजेन संनिकृष्य पूर्वोपदेशप्रत्ययात् 'अयमेव स देवो
राजवाहनः' इति प्राञ्जलिः प्रणम्यापहारवर्मणि निविष्टदृष्टि-
राचष्ट –'त्वदादिष्टेन मार्गेण संनिपातितमेतदङ्गराजसाहाय्यदा-
नायोपस्थितं [^३]राजकम् । [^४]अरिबलं च विहतविध्वस्तं स्त्रीबालहार्य-
 
पदचन्द्रिका ।
 
त्यर्थः । क्षणेनेति । समन्ततः सर्वतः । 'समन्ततस्तु परितः सर्वतो विष्वगित्यपि' इत्यमरः । बलनिकायेन सेनासमूहेन । 'स्यान्निकाय: पुञ्जराशी' इत्यमरः । 'निकायो निवहो व्यूहः समूहो विसरो व्रजः' इति वैजयन्ती ।
अनन्तरमिति । कर्णिकारो द्रुमोत्पलस्तद्वद्गौरः । कुरुविन्देन सवर्णाः समानाः कुन्तलाः केशा यस्येति । कुरुविन्दो नीलगुच्छः । नीलमणिरिति यावत् । कटितटे निविष्टो रत्नयुक्तो नखः नखर इति वा छुरिका यस्येति । पट्टं दुकूलं निवसनं यस्येति तथा । कृशाकृशे उदरोरःस्थले यस्येति स तथा । कृशोदरः स्थूलोरः स्थलश्चेति योज्यम् । कृतहस्ततया शिक्षितहस्ततया । 'शिक्षितं कृतमर्थवत्' इति भागुरिः । इषुवर्षेण बाणवृष्ट्या । अङ्गुष्ठाभ्यां निष्ठुरं यथा तथावघृष्टं घर्षितं कर्णमूलं यस्येति तेन । प्रजविना
सवेगेन । संनिकृष्य । संनिकर्षं कृत्वेत्यर्थः । निविष्टदृष्टिः दत्तदृष्टिः । आचष्ट । 'चक्षिङ्' । त्वदादिष्टेनेति । 'अथ राजकम् । राजन्यकं च नृपतिक्षत्रियाणां गणे क्रमात्' इत्यमरः । राजकं राजसमूहम् । सस्त्रीबालैर्हार्यते तत् । आज्ञाकरः सेवकः ।
 
भूषणा ।
 
नाङ्गराजसाहाय्यार्थमागतेन । समन्ततः सर्वतः । 'समन्ततस्तु परितः सर्वतो विष्वगित्यपि' । बलनिकायेन सेनासमूहेन । 'निकायो निवहो व्यूहः समूहो विसरो व्रजः' इति वैजयन्ती । अन्तरेऽवसरे । कश्चिद्धनमित्राख्यः । कर्णिकारो द्रुमोत्पल: । 'अथ द्रुमोत्पलः । कर्णिकारः परिव्याधः' इत्यमरः । 'कठचम्पा' इति भाषायाम् । कुरुविन्दः । 'कुरुविन्दो मेघनामा' इत्यमरः । 'दृषद्यरण्ये सस्ये
च कुरुविन्दः' इत्यनेकार्थध्वनिमञ्जरी । कमलकोमलपाणिपाद इत्यादि । अश्वेतरक्तमृदुलौ कमलोदराभौ श्लिष्टाङ्गुली रुचिरताम्रतलौ सुपार्ष्णी । उष्णौ शिराविर-
 
लघुदीपिका ।
 
वान् । समन्ततः सर्वतः । 'समन्ततस्तु परितः सर्वतो विष्वगित्यपि' । बलनिकायेन सेनासमूहेन । 'निकायो निवहो व्यूहः समूहो विसरो व्रजः' इति वैजयन्ती । अन्तरेऽवसरे । 'कुरविन्दो नीलगुच्छ:' । 'कुरविन्द -' इति पाठे
 
[^१]G. 'अन्तरे'.
[^२]G. 'अभिपात्य'.
[^३]G. 'राजन्यकम्'.
[^४]G. 'अखिलारिबलं','अखिलं चारिबलं',