This page has not been fully proofread.

दशकुमारचरितम् ।
 
[ प्रथमः
 
अनन्तरं च कश्चित्कर्णिकारगौरः कुरुविन्दसवर्णकुन्तलः
कमलकोमलपाणिपादः कर्णचुम्बिदुग्धधवलस्निग्धनीललोचनः कटि-
तटनिविष्टरत्ननख पट्टनिवसनः कृशाकृशोदरोरःस्थलः कृत-
हस्ततया रिपुकुलमिषुवर्षेणोभिवर्षन्पादाङ्गुष्ठनिष्टुरावघृष्टकर्णमूलेन
 
प्रजविना गजेन संनिकृष्य पूर्वोपदेशप्रत्ययात् 'अयमेव स देवो
राजवाहनः' इति प्राञ्जलिः प्रणम्यापहारवर्मणि निविष्टदृष्टि-
राचष्ट –'त्वदादिष्टेन मार्गेण संनिपातितमेतदङ्गराजसाहाय्यदा.
नायोपस्थितं रॉजकम् । अॅरिबलं च विहतविध्वस्तं स्त्रीबालहार्य-
48
 
पदचन्द्रिका ।
 
त्यर्थः । क्षणेनेति । समन्ततः सर्वतः । 'समन्ततस्तु परितः सर्वतो विष्वगि-
त्यपि' इत्यमरः । बलनिकायेन सेनासमूहेन । 'स्यान्निकाय: पुञ्जराशी' इत्यमरः ।
'निकायो निवहो व्यूहः समूहो विसरो व्रजः' इति वैजयन्ती ।
 
अनन्तरमिति । कर्णिकारो द्रुमोत्पलस्तद्वद्गौरः । कुरुविन्देन सवर्णाः समानाः
कुन्तलाः केशा यस्येति । कुरुविन्दो नीलगुच्छः । नीलमणिरिति यावत् । कटितटे
निविष्टो रत्नयुक्तो नखः नखर इति वा छुरिका यस्येति । पट्टं दुकूलं निवसनं यस्येति
तथा । कृशाकृशे उदरोरःस्थले यस्येति स तथा । कृशोदरः स्थूलोरः स्थलश्चेति योज्यम् ।
कृतहस्ततया शिक्षितहस्ततया । 'शिक्षितं कृतमर्थवत्' इति भागुरिः । इषुवर्षेण
बाणवृष्ट्या । अड्डष्ठाभ्यां निष्ठुरं यथा तथावघृष्टं घर्षितं कर्णमूलं यस्येति तेन । प्रजविना
सवेगेन । संनिकृष्य । संनिकर्ष कृत्वेत्यर्थः । निविष्टदृष्टिः दत्तदृष्टिः । आचष्ट ।
'चक्षिङ्' । त्वदादिष्टेनेति । 'अथ राजकम् । राजन्यकं च नृपतिक्षत्रियाणां गणे
क्रमात्' इत्यमरः । राजकं राजसमूहम् । सस्त्रीबालैर्हार्यते तत् । आज्ञाकरः सेवकः ।
 
भूषणा ।
 
नागराजसाहाय्यार्थमागतेन । समन्ततः सर्वतः । 'समन्ततस्तु परितः सर्वतो
विष्वगित्यपि' । बलनिकायेन सेनासमूहेन । 'निकायो निवहो व्यूहः समूहो
विसरो व्रजः' इति वैजयन्ती । अन्तरेऽवसरे । कश्चिद्धनमित्राख्यः ।कर्णिकारो
मोपल: । 'अथ द्रुमोत्पलः । कर्णिकारः परिव्याधः' इत्यमरः । 'कठचम्पा'
इति भाषायाम् । कुरुविन्दः । 'कुरुविन्दो मेघनामा' इत्यमरः । 'दृषधरण्ये सस्ये
च कुरुविन्दः' इत्यनेकार्थध्वनिमञ्जरी । कमलकोमलपाणिपाद इत्यादि । अश्वेत-
रक्तमृदुलौ कमलोदराभौ लिष्टाड्डली रुचिरताम्रतलौ सुपाणी । उष्णौ शिराविर-
लघुदीपिका ।
 
वान् । समन्ततः सर्वतः । 'समन्ततस्तु परितः सर्वतो विष्वगित्यपि' । बलनि-
कायेन सेनासमूहेन । 'निकायो निवहो व्यूहः समूहो विसरो व्रजः' इति वैज-
यन्ती । अन्तरेऽवसरे । 'कुरविन्दो नीलगुच्छ:' । 'कुरविन्द -' इति पाठे
 
पाठा० - १ 'अन्तरे'. २ 'अभिपात्य'. ३ 'राजन्यकम्'. ४ 'अखिलारिबलं',
'अखिलं चारिबलं',