2023-06-01 13:28:17 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

इति वाचः समभवन् । श्रुत्वा चैतत्तमेव मत्तहस्तिनमुदस्ताधो-
रणो राजपुत्रोऽधिरुह्य रंहसोत्तमेन राजभवनमभ्यवर्तत । स्तम्बे-
रमरयाव [^१]धूतपदातिदत्तवर्मा च प्रविश्य वेश्माभ्यन्तरमदभ्राभ्र
-र्निघोषगम्भीरेण स्वरेणाभ्यधात्– 'कः स महापुरुषो येनैतन्मानुष-
मात्रदुष्करं महत्कर्मानुष्ठितम् । आगच्छतु । मया सहेमं मत्त-
हस्तिनमारोहतु । अभयं मदुपकण्ठवर्तिनो देवदानवैरपि विगृह्णा-
नस्य' इति । निशम्यैवं स पुमानुपोढहर्षो निर्गत्य कृताञ्जलिराक्रम्य संज्ञासंकुचितं कुञ्जरगात्रमसक्तमध्यरुक्षत् । आरोहन्तमे-
वैनं निर्वर्ण्य हर्षोत्फुल्लदृष्टि: 'अये, प्रियसखोऽयमपहारवर्मैव' इति
 
पदचन्द्रिका ।
 
निष्प्राणानां शतानि तन्मयम् । आपादयन्कुर्वन् । अचकितगतिः अत्रस्तगमनः । श्रुत्वेति । तमेव चण्डवर्माधिष्ठितमेव । उदस्तो दूरीकृत आधोरणो हस्तिपको येनेति । 'आधोरणा हस्तिपकाः' इत्यमरः । उत्तमेन रंहसा वेगेन । 'रयो वेगो जवो रंहः' इति वैजयन्ती । 'रंहस्तरसी तु रयः स्यदः । जवः' इत्यमरः । स्तम्बे-
रमते असाविति स्तम्बेरमो हस्ती, तस्य रयो वेगस्तेनावधूता दूरीकृता ये पदातयस्तैर्दत्तं वर्त्म यस्येति । अदभ्रं बहुलम् । अभ्रनिर्घोषगम्भीरेण मेघरसितगम्भीरेण । 'अभ्रं मेघो वारिवाहः' इत्यमरः । 'निर्घोषे रसितादि च' इत्यमरः । विगृह्णानस्य
विरोधं कुर्वतः । उपोढहर्षो वर्धमानहर्षः । संज्ञया संकेतेन संकुचितम् । कुञ्जरगात्रं पूर्वपदजङ्घाप्रदेशम् । 'द्वौ पूर्वपश्चाज्जङ्घा- दिदेशौ गात्रावरे क्रमात्' इत्यमरः । असक्तम् । त्वरितमित्यर्थः । अध्यरुक्षत् । आरुरोहेत्यर्थः । निर्वर्ण्य दृष्ट्वा । 'निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम्' इत्यमरः । अये इति । 'अतर्कापतिते त्वये' इति केशवः । प्रियस-
 
भूषणा ।
 
'नखरस्त्वसिपुत्रिका' इति वैजयन्ती । उदस्तः क्षिप्तः । आधोरणो हस्तिपकः । 'आधोरणा हस्तिपकाः' इत्यमरः । स्तम्बेरमो हस्ती । 'इभः स्तम्बेरमः पद्मी' इत्यमरः । 'रयो वेगो जवो रंहः' इति वैजयन्ती । पत्तिः पदातिः । 'पदातिपत्तिपदग-' इत्यमरः । अदभ्रं बहु । 'अदभ्रं बहुलं बहु' इत्यमरः । विगृह्णानस्य विरोधं कुर्वतः । गात्रं शरीरम् । 'गात्रं वपुः संहननम्' इत्यमरः । गजप्रकरणेऽमरो-
क्तस्य 'द्वौ पूर्वपश्चाजवादिदेशौ गात्रावरे क्रमात्' इति पूर्वजङ्घा- वाचकगात्रस्य न ग्रहणम् । उत्तरग्रन्थविरोधात् । आक्रम्य पादविक्षेपं कृत्वा । 'क्रमु पादविक्षेपे । असक्तमिति क्रियाविशेषणम् । हस्तिनमस्पृष्ट्वेत्यर्थः । निर्वर्ण्य दृष्ट्वा । 'निर्व-
 
लघुदीपिका ।
 
क्षुरिका । उदस्तः क्षिप्तः । स्तम्बेरमो गजः । रयो वेगः 'रयो वेगो जवो रंहः' इति वैजयन्ती । विगृह्णानस्य विरोधं कुर्वतः । गात्रं पूर्वपदजङ्घाप्रमाणम् । अये,
 
[^१]G. 'धूतपत्ति'.