2023-05-18 02:10:10 by ambuda-bot
This page has not been fully proofread.
७२
दशकुमारचरितम् ।
[ प्रथमः
इति वाचः समभवन् । श्रुत्वा चैतत्तमेव मत्तहस्तिनमुदस्ताधो-
रणो राजपुत्रोऽधिरुह्य रंहसोत्तमेन राजभवनमभ्यवर्तत । स्तम्बे-
रमरयावधूतैपदातिदत्तवर्मा च प्रविश्य वेश्माभ्यन्तरमद्भ्रानि-
घोषगम्भीरेण स्वरेणाभ्यधात्– 'कः स महापुरुषो येनैतन्मानुष-
मात्रदुष्करं महत्कर्मानुष्ठितम् । आगच्छतु । मया सहेमं मत्त-
हस्तिनमारोहतु । अभयं मदुपकण्ठवर्तिनो देवदानवैरपि विगृह्णा-
नस्य' इति । निशम्यैवं स पुमानुपोढहर्षो निर्गत्य कृताञ्जलिरा-
ऋम्य संज्ञासंकुचितं कुञ्जरगात्रमसक्तमध्यरुक्षत् । आरोहन्तमे-
वैनं निर्वर्ण्य हर्षोत्फुल्लदृष्टि: 'अये, प्रियसखोऽयमपहारवर्मैव' इति
Albu Palle He
पदचन्द्रिका ।
।
निष्प्राणानां शतानि तन्मयम् । आपादयन्कुर्वन् । अचकितगतिः अत्रस्तगमनः ।
श्रुत्वेति । तमेव चण्डवर्माधिष्ठितमेव । उदस्तो दूरीकृत आधोरणो हस्तिपको
येनेति । 'आधोरणा हस्तिपकाः' इत्यमरः । उत्तमेन रंहसा वेगेन । 'रयो वेगो
जवो रंहः' इति वैजयन्ती । 'रंहस्तरसी तु रयः स्यदः । जवः' इत्यमरः । स्तम्बे-
रमते असाविति स्तम्बेरमो हस्ती, तस्य रयो वेगस्तेनावधूता दूरीकृता ये पदात-
यस्तैर्दत्तं वर्त्म यस्येति । अदभ्रं बहुलम् । अभ्रनिर्घोषगम्भीरेण मेघरसितगम्भीरेण ।
'अभ्रं मेघो वारिवाहः' इत्यमरः । 'निर्घोषे रसितादि च' इत्यमरः । विगृह्णानस्य
विरोधं कुर्वतः । उपोढहर्षो वर्धमानहर्षः । संज्ञया संकेतेन संकुचितम् । कुञ्जरगात्रं
पूर्वपदजयाप्रदेशम् । 'द्वौ पूर्वपश्चाजवादिदेशौ गात्रावरे क्रमात्' इत्यमरः । असक्तम् ।
त्वरितमित्यर्थः । अध्यरुक्षत् । आरुरोहेत्यर्थः । निर्वर्ण्य दृष्ट्वा । 'निर्वर्णनं तु निध्यानं दर्श-
नालोकनेक्षणम्' इत्यमरः । अये इति । 'अतर्कापतिते त्वये' इति केशवः । प्रियस-
भूषणा ।
K
'नखरस्त्वसिपुत्रिका' इति वैजयन्ती । उदस्तः क्षिप्तः । आधोरणो हस्तिपकः ।
'आधोरणा हस्तिपकाः' इत्यमरः । स्तम्बेरमो हस्ती । 'इभः स्तम्बेरमः पद्मी
इत्यमरः । 'रयो वेगो जवो रंहः' इति वैजयन्ती । पत्तिः पदातिः । 'पदाति-
पत्तिपदग-' इत्यमरः । अदभ्रं बहु । 'अदभ्रं बहुलं बहु' इत्यमरः । विगृह्णानस्य
विरोधं कुर्वतः । गात्रं शरीरम् । 'गात्रं वपुः संहननम्' इत्यमरः । गजप्रकरणेऽमरो-
तस्य 'द्वौ पूर्वपश्चाजवादिदेशौ गात्रावरे कमात्' इति पूर्वजडावाचकगात्रस्य
न ग्रहणम् । उत्तरग्रन्थविरोधात् । आक्रम्य पादविक्षेपं कृत्वा । 'क्रमु पादवि-
क्षेपे । असक्तमिति क्रियाविशेषणम् । हस्तिनमस्पृष्टृत्यर्थः । निर्वर्ण्य दृष्ट्वा । 'निर्व-
।
लघुदीपिका ।
क्षुरिका । उदस्तः क्षिप्तः । स्तम्बेरमो गजः । रयो वेगः 'रयो वेगो जवो रहः'
इति वैजयन्ती । विगृह्णानस्य विरोधं कुर्वतः । गात्रं पूर्वपदजङ्घाप्रमाणम् । अये,
पाठा०-१ ''धूतपत्ति'.