2023-06-01 13:09:42 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
त्वदनुभावप्रतिबद्धनिग्रहान्तराध्यवसायःसमालिङ्ग्ये- तरेतरमत्यन्तसुखसुप्तयोर्युवयोर्दैवदत्तोत्साहःपाण्डुलोहशृङ्खलात्म ना मया पादपद्मयोर्युगलं तव निगडयित्वा सरोषरभसमपासरत् । अवसितश्च ममाद्य शापः । तच्च मासद्वयं तव पारतंत्र्यम् । प्रसी-
देदानीम् । किं तव करणीयम्' इति प्रणिपतन्तीं 'वार्तयानया
मत्प्राणसमां समाश्वासय' इति व्यादिश्य विससर्ज ।
तस्मिन्नेव क्षणान्तरे 'हतो हतश्चण्डवर्मा सिंहवर्मदुहितुरम्बा-
लिकायाः पाणिस्पर्शरागप्रसारिते बाहुदण्ड एव बलवदवलम्ब्य
सरभसमाकृष्य केनापि [^१]दुष्करकर्मणा तस्करेण [^२]नखप्रहारेण राजमन्दिरोद्देशं च शवशतमयमापादयन्नचकितगतिरसौ विहरति'
पदचन्द्रिका ।
वीरशेखरः । त्वदनुभावेन त्वत्सामर्थ्येन प्रतिबद्धो निवारितो निग्रहान्तराध्यवसायो निग्रहे मारणादावध्यवसायो निश्चयात्मिका बुद्धिर्यस्य । युवयोस्त्वं च सावन्तिसुन्दरी चेति तयोः । दैवेन दत्त उत्साहो यस्येति स विद्याधरः । पाण्डुलोहं रजतम् ।'सर्वं च तैजसं लोहम्' इत्यमरः । शृङ्खलात्मना शृङ्खलास्वरूपया । निगडयित्वा । बद्धेत्यर्थः । सरोषरभसं सक्रोधवेगम् । अपासरत् । जगामेत्यर्थः । अवसितःसमाप्तिप्राप्तः । परतन्त्रस्य भावः पारतत्र्यम् । 'परतन्त्रः पराधीनः' इत्यमरः । अनया मत्प्राणसमां मत्प्राणतुल्यामवन्तिसुन्दरीं समाश्वासयेति व्यादिश्य कथयित्वा
विससर्जेति ॥
तस्मिन्निति । क्षणान्तरेऽवसरान्तरे । 'उत्सवेऽवसरे क्षणः' इति महीपः । त्रिंशत्कलात्मकः क्षणः । 'तास्तु त्रिंशत्क्षणः' इत्यमरः । सरभसं सवेगम् । दुष्करकर्मणाऽसुकरकर्मणा । नखप्रहारेण छुरिकाघातेन । 'एकेनैव नखरप्रहारेण इति पाठे नखरश्छुरिका । राजमन्दिरोद्देशं राजगृहप्रदेशम् । शवशतमयं शवानां
भूषणा ।
तु भुवनवृत्तान्तम्' इत्यादि निरूपितम्, न्यरूपयदृष्टवान् । 'विलोकनं निरीक्षणं निभालनं निरूपणम्' इत्यजयः । प्रतिबद्धो निवारितः । निग्रहस्यान्तर्गतोऽध्यवसाय उत्साहो यस्य । 'उत्साहोऽध्यवसाय: स्यात्' इत्यमरः । पाण्डुवर्णलोहं
रजतम् । 'सर्वं स्यात्तैजसं लोहम्' इत्यमरः । नखरः । 'बाँक' इति भाषायाम् ।
लघुदीपिका ।
निवारितः । निग्रहान्तराध्यवसायो निग्रहविषयेऽन्तर्गतोऽध्यवसायः । नखर-
[^१]G. 'दुष्करकर्मकारिणा'.
[^२]G. 'एकेनैव नखर',