2023-06-01 13:06:45 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

उच्छ्वासः ] पत्वचन्नुभावप्रतिबद्रिका-भूषणा-लघुदीपिकासहितम् ।
 
७१
 
धनिग्रहान्तराध्यवसायःसमालिङ्ग्ये तरेतरमत्यन्त-
सुखसुप्तयोर्युवयोर्दैवदत्तोत्साहःपाण्डुलोहशृङ्खलात्मना
 
मया
 
त्वद्नुभावप्रतिबद्धनिग्रहान्तराध्यवसायः
सुखसुप्त योर्युवयोर्दैवदत्तोत्साहः
मया पादपद्मयोर्युगलं तव निगडयित्वा सरोषरभसमपासरत् । अव-
सितश्च ममाद्य शापः । तच्च मासद्वयं तव पारतंत्र्यम् । प्रसी-

देदानीम् । किं तव करणीयम्' इति प्रणिपतन्तीं 'वार्तयानया


मत्प्राणसमां समाश्वासय' इति व्यादिश्य विससर्ज ।
 

तस्मिन्नेव क्षणान्तरे 'हतो हतञ्श्चण्डवर्मा सिंहवर्मदुहितुरम्बा-

लिकायाः पाणिस्पर्शरागप्रसारिते बाहुदण्ड एव बलवदवलम्ब्य

सरभसमाकृष्य केनापि [^१]दुष्करकर्मणा तस्करेण ने[^२]नखप्रहारेण राज-
मन्दिरोद्देशं च शवशतमयमापादयन्नचकितगतिरसौ विहरति'
 

 
पदचन्द्रिका ।
 

 
वीरशेखरः । त्वदनुभावेन त्वत्सामर्थ्येन प्रतिबद्धो निवारितो निग्रहान्तराध्यवसायो
निग्रहे मारणादावध्यवसायो निश्चयात्मिका बुद्धिर्यस्य । युवयोस्त्वं च सावन्तिसु
न्दरी चेति तयोः । दैवेन दत्त उत्साहो यस्येति स विद्याधरः । पाण्डुलोहं रजतम् ।
'सर्व
'सर्वं च तैजसं लोहम्' इत्यमरः । शृङ्खलात्मना शृङ्खलास्वरूपया । निगडयित्वा ।
जेद्धेत्यर्थः । सरोषरभसं सक्रोधवेगम् । अपासरत् । जगामेत्यर्थः । अवसितः
समाप्ति प्राप्तः । परतन्त्रस्य भावः पारतत्र्यम् । 'परतन्त्रः पराधीनः' इत्यमरः ।
अनया मत्प्राणसमां मत्प्राणतुल्यामवन्तिसुन्दरीं समाश्वासयेति व्यादिश्य कथयित्वा

विससर्जेति ॥
 

 
तस्मिन्निति । क्षणान्तरेऽवसरान्तरे । 'उत्सवेऽवसरे क्षणः' इति महीपः ।
त्रिंशत्कलात्मकः क्षणः । 'तास्तु त्रिंशत्क्षणः' इत्यमरः । सरभसं सवेगम् ।
दुष्करकर्मणाऽसुकरकर्मणा । नखप्रहारेण छुरिकाघातेन । 'एकेनैव नखरप्रहारेण
इति पाठे नखरश्छुरिका । राजमन्दिरोद्देशं राजगृहप्रदेशम् । शवशतमयं शवानां
 

 
भूषणा ।
 

 
तु भुवनवृत्तान्तम्' इत्यादि निरूपितम्, न्यरूपयदृष्टवान् । 'विलोकनं निरीक्षणं
निभालनं निरूपणम्' इत्यजयः । प्रतिबद्धो निवारितः । निग्रहस्यान्तर्गतोऽध्य-
वसाय उत्साहो यस्य । 'उत्साहोऽध्यवसाय: स्यात्' इत्यमरः । पाण्डुवर्णलो
हं
रजतम् । 'सर्वं स्यात्तैजसं लोहम्' इत्यमरः । नखरः । 'बाँक' इति भाषायाम् ।

 
लघुदीपिका ।
 

 
निवारितः । निग्रहान्तराध्यवसायो निग्रहविषयेऽन्तर्गतोऽध्यवसायः । नखर-
पाठा०-

 
[^
]G. 'दुष्करकर्मकारिणा'.
[^
]G. 'एकेनैव नखर',