2023-06-01 12:41:06 by Lakshmainarayana achar
This page has not been fully proofread.
ऽयमिति तपस्यता दर्पसारेण सह समसृज्यत । प्रतिश्रुतं च
तेन तस्मै स्वसुरवन्तिसुन्दर्याः प्रदानम् । अन्यदा तु वियति
व्यवदायमानचन्द्रिके मनोरथप्रियतमामवन्तिसुन्दरीं दिदृक्षुर-
वशेन्द्रियस्तदिन्द्रमन्दिरद्युति कुमारीपुरमुपासरत् । अन्तरितश्च
तिरस्करिण्या विद्यया, स च तां तदा [^१]त्वदङ्काजपाश्रयां सुरतखेदसुप्तगात्रीं त्रिभुवनसर्गयात्रासंहार [^२]संबद्धाभिः कथाभिरमृतस्यन्दिनीभिः प्रत्यानीयमानरागपूरां न्यरूपयत् । स तु प्रकुपितोऽपि
पदचन्द्रिका ।
तस्य नरवाहनदत्तस्यापकारे निग्रहे क्षमः समर्थ इति । दर्पसारेण समसृज्यत । संगतोऽभूदित्यर्थः । तेन दर्पसारेण । तस्मै वीरशेखराय । स्वसुर्भगिन्याः । प्रदानं विवाहः । अन्यदेति । व्यवदायमानचन्द्रिके निर्मलज्योत्स्ने । 'दैप् शोधने' । मनोरथैः
प्रियतमाम् । दिदृक्षुर्द्रष्टुमिच्छुः । उपासरत् । 'सृ गतौ इत्यस्य रूपम् । तिरस्करिण्यान्तर्धानकारिण्या विद्यया । स चेति वीरशेखरः । तामवन्तिसुन्दरीम् । त्वदङ्केऽपाश्रयो यस्या इति । 'अपाश्रयः शिरोभागः' इति वैजयन्ती । त्रिभुवनस्य
त्रैलोक्यस्य । सर्ग उत्पत्तिः । यात्रा व्यवहारस्थितिरिति यावत् । संहारः प्रलयस्तत्संबद्धाभिः कथाभिः ।अमृतस्यन्दिनीभिरमृ- तप्रस्राविणीभिः । प्रत्यानीयमानः पराग्वृत्त्या साध्यमानो रागपूरो यस्यास्ताम् । न्यरूपयत् । दृष्टवानित्यर्थः । 'विलोकनं निरीक्षणं निभालनं निरूपणम्' इत्यजयः । स त्विति । स तु विद्याधरो
भूषणा ।
कारे नरवाहनदत्तापकारे । समसृज्यत संगतः । प्रतिश्रुतम् । प्रतिज्ञातमित्यर्थः । स्वस्वसारमवन्तिसुन्दरीं तुभ्यं दास्य इत्येव प्रतिज्ञातमिति भावः । तेन दर्पसारेण । व्यवदायमानचन्द्रिके निर्मलीभवज्योत्स्ने । 'दैप् शोधने' । उपासरत् । वीरशेखरनामको गतवानित्यर्थः । तिरस्करिण्या अन्तर्धानकारिण्या । अपाश्रयः शिरोभागः । 'अपाश्रयः शिरोभागः' इति वैजयन्ती । त्रिभुवनसर्गेत्यादि । त्रिभुवनस्य तद्वासिजनस्य सर्गेण मोहेन यात्रा गतिः । इन्द्रादेः पराङ्गनागमनम्, यादवानां मद्यपानम्, युधिष्ठिरनलादीनां द्यूतविधिस्तेन संहारः, इन्द्रचन्द्रवालिराव-
णादे रोगवधादिः । 'सर्गस्तु निश्चयाध्यायमोहोत्साहात्मसृष्टिषु' । 'यात्रा' तु यापनोपाये गतौ देवार्चनोत्सवे' इति विश्वप्रकाशः । यद्वा सर्ग उत्पत्तिः, यात्रा स्थितिः, संहारो लयः, तत्र संस्थिताभिस्तद्बोधिकाभिः । अत्र पूर्वमतं युक्तमिति 'श्रुत्वा
लघुदीपिका ।
बन्धनम् । वर्तमाने इदमव्ययम् । 'वर्तमानेऽथ सांप्रतम् । व्यवदायमानचन्द्रिके निर्मलीभवज्योत्स्ने । 'दैप् शोधने' । 'अपाश्रयः शिरोभागे' इति वैजयन्ती । न्यरूपयत् दृष्टवान् । 'विलोकनं निरीक्षणं निभालनं निरूपणम्' इत्यजयः । प्रतिबद्धो
[^१]G. 'त्वदङ्गोपाश्रयाम्'.
[^२]G. 'संस्थिताभिः',