2023-06-01 12:40:52 by Lakshmainarayana achar

This page has not been fully proofread.

दशकुमारचरितम् ।
 
[प्रथमः
 
ऽयमिति तपस्यता दर्पसारेण सह समसृज्यत । प्रतिश्रुतं च

तेन तस्मै स्वसुरवन्तिसुन्दर्याः प्रदानम् । अन्यदा तु वियति


व्यवदायमानचन्द्रिके मनोरथप्रियतमामवन्तिसुन्दरीं दिदृक्षुर-

वशेन्द्रियस्तदिन्द्रमन्दिरद्युति कुमारीपुरमुपासरत् । अन्तरितश्च

तिरस्करिण्या विद्यया, स च तां तदा त्वंद[^१]त्वदङ्काजपाश्रयां सुरतखेद-
सुप्तगात्रीं त्रिभुवनसर्गयात्रासंहार [^२]संबैद्धाभिः कथाभिरमृतस्यन्दि-
नीभिः प्रत्यानीयमानरागपूरां न्यरूपयत् । स तु प्रकुपितोऽपि
 

 
पदचन्द्रिका ।
 
-
 

 
तस्य नरवाहनदत्तस्यापकारे निग्रहे क्षमः समर्थ इति । दर्पसारेण समसृज्यत । संग-
तोऽभूदित्यर्थः । तेन दर्पसारेण । तस्मै वीरशेखराय । स्वसुर्भगिन्याः । प्रदानं विवा-
हः । अन्यदेति । व्यवदायमानचन्द्रिके निर्मलज्योत्स्ने । 'दैप् शोधने' । मनोरथैः

प्रियतमाम् । दिदृक्षुर्द्रष्टुमिच्छुः । उपासरत् । 'सृ गतौ इत्यस्य रूपम् । तिरस्क
रिण्यान्तर्धानकारिण्या विद्यया । स चेति वीरशेखरः । तामवन्तिसुन्दरीम् ।
बद
त्वदङ्केऽपाश्रयो यस्या इति । 'अपाश्रयः शिरोभागः' इति वैजयन्ती । त्रिभुवनस्य

त्रैलोक्यस्य । सर्ग उत्पत्तिः । यात्रा व्यवहारस्थितिरिति यावत् । संहारः प्रलय-
स्तत्संबद्धाभिः कथाभिः । अमृतस्यन्दिनीभिरभृमृ- तप्रस्राविणीभिः । प्रत्यानीयमानः
पराग्वृत्त्या साध्यमानो रागपूरो यस्यास्ताम् । न्यरूपयत् । दृष्टवानित्यर्थः । 'विलो-
कनं निरीक्षणं निभालनं निरूपणम्' इत्यजयः । स त्विति । स तु विद्याधरो

 
भूषणा ।
 

 
कारे नरवाहनदत्तापकारे । समसृज्यत संगतः । प्रतिश्रुतम् । प्रतिज्ञातमित्यर्थः ।
खख
स्वस्वसारमवन्तिसुन्दरीं तुभ्यं दास्य इत्येव प्रतिज्ञातमिति भावः । तेन दर्पसारेण ।
व्यवदायमानचन्द्रिके निर्मलीभवज्योत्स्ने । 'दैप् शोधने' । उपासरत् । वीरशे-
खरनामको गतवानित्यर्थः । तिरस्करिण्या अन्तर्धानकारिण्या । अपाश्रयः शिरो-
भागः । '
अपाश्रयः शिरोभागः । 'अपाश्रयः शिरोभागः' इति वैजयन्ती । त्रिभुवनसर्गेत्यादि ।
त्रिभुवनस्य तद्वासिजनस्य सर्गेण मोहेन यात्रा गतिः । इन्द्रादेः पराङ्गनागमनम्
, यादवानां मद्यपानम्, युधिष्ठिरनलादीनां द्यूतविधिस्तेन संहारः, इन्द्रचन्द्रवालिराव-

णादे रोगवधादिः । 'सर्गस्तु निश्चयाध्यायमोहोत्साहात्मसृष्टिषु' । 'यात्रा' तु याप
नोपाये गतौ देवार्चनोत्सवे' इति विश्वप्रकाशः । यद्वा सर्ग उत्पत्तिः, यात्रा स्थितिः,
संहारो लयः, तत्र संस्थिताभिस्तद्बोधिकाभिः । अत्र पूर्वमतं युक्तमिति 'श्रुखा
त्वा
 
लघुदीपिका ।
 

 
बन्धनम् । वर्तमाने इदमव्ययम् । 'वर्तमानेऽथ सांप्रतम् । व्यवदायमानचन्द्रिकें
के निर्मलीभवज्योत्स्ने । 'दैप् शोधने' । 'अपाश्रयः शिरोभागे' इति वैजयन्ती ।
न्यरूपयत् दृष्टवान् । 'विलोकनं निरीक्षणं निभालनं निरूपणम्' इत्यजयः । प्रतिबद्धो
पाठा०-

 
[^
]G. 'त्वदङ्गोपाश्रयाम्'.
[^
]G. 'संस्थिताभिः',