2023-06-01 10:46:37 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

उच्छ्वासः ] पदचन्द्रिका - भूषणा-लघुदीपिकासहितम् ।
 
६९
 
मस्तके मणिकिरणद्विगुणितपलितमपतत् । पातितश्च कोपितेन

कोऽपि तेन मयि शाप: - 'पापे, भजस्व लोहजातिमजातचैतन्या

सती' इति । स पुनः प्रसाद्यमानस्त्वत्पादपद्मद्वयस्य मासद्वयमात्रं

संदानतामेत्य निस्तरणीयामिमामापदमपरिक्षीणशक्तित्वं [^१]चेन्द्रिया-
णामकल्पयत् । अनल्पेन च पाप्मना रजतशृङ्खलीभूतां मामै-
क्ष्वाकस्य राज्ञो वेगवतः पौत्रः, पुत्रो मानसवेगस्य, वीरशेखरो
नाम विद्याधरः शंकरगिरौ समध्यगमत् । आत्मसात्कृता च
तेनाहमासम् । अथासौ [^२]पितृप्रयुक्तवैरे प्रवर्तमाने विद्याधरचक्र-
वर्तिनि वत्सराजवंशवर्धने नरवाहनदत्ते विरसाशयस्तदुपकारक्षमो-

 
पदचन्द्रिका ।
 

 
कुर्वतः । मणिकिरणैर्द्विगुणितमसंख्यातीकृतं पालपलितं जराजा- तशौक्ल्यमिति क्रियाविशे-
षणम् । अपतत् । 'पत्ऌ पतने' । कोपितेन कोपः संजातो यस्येति तथा । 'तदस्य
संजातं- ' (५।२।३६) इतीतच् । कोऽपि शापः 'शप आक्रोशे' । लोहजातिं लोहत्वम् ।
'जातिर्जातं च सामान्यम्' इत्यमरः । न जातं चैतन्यं चेतनधर्मो यस्याः सेति । स मार्क-
ण्डेयः । मासद्वयमात्रं मासद्वयप्रमाणम् । 'प्रमाणो द्वयसच्- ' (५।२।३७) इति मात्रच् ।
संदानतां पादबन्धनताम् । 'संदानं पादबन्धनम्' इत्यमरः । निस्तरणीयाम् । समा-
पॅ
नीयामित्यर्थः । इन्द्रियाणां मनःप्रभृतीनाम् । अनल्पेन बहुना । पाप्मना । पापे-
नेत्यर्थः । 'अस्त्री पङ्कं पुमान्पाप्मा पापम्' इत्यमरः । रजत शृङ्खलीभूताम् । 'अभूत-'
( वा० ३३४०) इति च्विः । इक्ष्वाकोरयमैक्ष्वाकः । वेगवतस्तन्नाम्नो राज्ञः । शंकरगिरौ

शंकरपर्वते । मां समध्यगमत् । प्रापेत्यर्थः । तेन वीरशेखरेणाहमात्मसादात्माधीना ।
तदधीने सातिः । अथेति । असौ वीरशेखरो विद्याधरः । पित्रा प्रयुक्तं यद्वैरं
तस्मिन् । प्रवर्तमाने । कुर्वाण इत्यर्थः । नरवाहनदत्ते विरसाशयः परुषान्तःकरणः
 

 
भूषणा ।
 

 
इत्यमरः । मणिकिरणेत्यादि क्रियाविशेषणम् । 'पलितं जरसा शौक्लयम्' इत्य-
मरः । संदानतां बन्धनताम् । अपरिक्षीणशक्तिवं स्वस्वविषयग्राहकत्वम् । रजत-
शृङ्खलीभूतां मां समध्यगमत् प्राप्तवानित्यन्वयः । असौ वीरशेखरनामकः । तदप-

 
लघुदीपिका ।
 

 
र्षिकाशुभयोरपि' । उषोराग उषःप्रकाशे । 'रागोऽनुरागो लाक्षाद्रौ मात्सर्यालो-
कयोरपि' इति वैजयन्ती । रक्षिभिरधिकारिभिः । 'रक्षी कृत्याधिकारी स्यात् इति
वैजयन्ती । व्यजिज्ञपन्निवेदितवती । 'ज्ञप विज्ञप्तौ । संदानताम् । संदानं 'पाद-
1
 
पाठा० -

 
[^
]G. च पञ्चेन्द्रियाणाम्'.
[^
]G. 'पितृप्रयुक्तो वैरे वर्तमाने.