2023-06-01 10:24:48 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

स्यावग्रहणं करिष्यामि' इति पार्श्वचरानवेक्षांचक्रे । निन्ये चासा-
वहन्यन्यस्मिन्नुन्मिषत्येवोषोरागे राजपुत्रो राजाङ्गणं रक्षिभिः ।
उपतस्थे च क्षरितगण्डचण्डपोतः । क्षणे च तस्मिन्मुमुचे तदङ्घ्रि-
युगलं रजतशृङ्खलया । सा चैनं चन्द्रलेखाच्छवि: [^२]काचिद-
प्सरो भूत्वा प्रदक्षिणीकृत्य प्राञ्जलिर्व्यजिज्ञपत्– 'देव, दीयताम-
नुग्रहार्द्रं चित्तम् । अहमस्मि सोमरश्मिसंभवा सुरतमञ्जरी नाम
सुरसुन्दरी । तस्या मे नभसि नलिनलुब्धमुग्धकलहंसानु-
बद्धवक्त्रायास्तन्निवारणक्षोभविच्छिन्नविगलिता हारयष्टिर्यदृच्छया
जातु हैमवते सरसि मन्दोदके मग्नोन्मग्नस्य महर्षेर्मार्कण्डेयस्य
 
पदचन्द्रिका ।
 
गारम् । वाहनानि हस्त्यश्वादीनि । अवग्रहणं बन्धनम् । पार्श्वचरान् वीरान् । अवेक्षांचक्रे । ददर्शेत्यर्थः । निन्ये चेति । द्विकर्मकोऽयं धातुः । असौ राजपुत्रो राजवाहन इति । उषोरागे प्रातःकालसंबन्धिनि लौहित्ये । 'उषःप्रत्युषसी' इत्यमरः ।
राजाङ्गणम् । 'अङ्गणं चत्वराजिरे' इत्यमरः । 'अङ्गणं चाङ्गनम्' इति द्विरूपकोशः । उपतस्थे । 'ष्ठा गतिनिवृत्तौ' । प्रापेत्यर्थः । 'उपाद्देवपूजासंगतिकरणमित्रकरणपथिष्विति वक्तव्यम्' । 'वा लिप्सायाम्' इति चेत्यन्यतरेणात्मनेपदम् । क्षरितः स्रवन्गण्डः कटो यस्येति । 'गण्ड: कटः' इत्यमरः । मुमुचे 'मुच्ऌ मोक्षणे' ।
भावे कर्तरि लिट् । सा चेति । सा च रजतशृङ्खला । व्यजिज्ञपत् । सोमरश्मिसंभवेत्येतन्नामकगन्धर्वोत्पन्ना । सुरतमञ्जरीति नाम । तस्या मे नभस्याकाशे । नलिने पद्मे । 'वा पुंसि पद्मं नलिनम्' इत्यमरः । मुग्धो मूढः । 'मुग्धः सुन्दरमूढयोः' इत्यमरः । यः कलहंसस्तत्रानुबद्धं लग्नं वक्त्रं यस्याः । तन्निवारणं कलहंसनिवारणम् । विच्छिन्ना त्रुटिता अत एव विगलिता । हारयष्टिर्हारलता । 'यष्टिर्हारलताशस्त्रभेदयोः' इति विश्वः । कर्तृपदमिदम् । जातु कदाचित् । मग्नोन्मग्नस्य स्नानं
 
भूषणा ।
 
'राजन्यकं च नृपतिक्षत्रियाणां गणे क्रमात्' इत्यमरः । 'गोत्रोक्षोष्ट्रोरभ्र -' (४।२।३९) इति वुञ् समूहे । सकोशवाहनस्य द्रव्यवस्त्रादिगजाश्वादियुक्तस्य अवग्रहणं प्रतिबन्धनम् । 'प्रतिबन्धोऽवग्रहः स्याद्वर्षिकाशुभयोरपि' इति । अवेक्षांचत्रे सावधा-
नांश्चक्रे । 'अवेक्षा प्रतिजागरः' इत्यमरः । उषोरागे प्रभातरागे । 'रागोऽनुरागे लाक्षादौ मात्सर्यालोकयोरपि' इति वैजयन्ती । रक्षिभी रक्षाधिकारिपुरुषैः । व्यजिज्ञपन्निवेदितवती । नलिनलुब्धेति । मन्मुखे नलिनत्वभ्रान्त्या कलहंसेनावरुद्धवक्त्राया ममेत्यर्थः । मन्दोदकेऽल्पाम्भसि । 'मूढाल्पापटुनिर्भाग्या मन्दाः '
 
लघुदीपिका ।
 
वाहनस्य सेनातुरङ्गयुक्तस्य । अवग्रहं प्रतिबन्धम् । 'प्रतिबन्धोऽवग्रहः स्याद्व-
 
[^१]G. 'काचिदप्सरोरूपिणी भूत्वा'.