2023-06-01 09:25:49 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

उच्छ्वास: ] पदचन्द्रिका-भूषणा- लघुदीपिका सहितम् ।
 
कृपावसरः । स्थंविरः स रांजा जराविलुप्तमानावमानचित्तो

दुश्चरितदुहितृपक्षपाती यदेव किंचित्प्रलपति त्वयापि किं तदनु-

मत्या स्थातव्यम् । अविलम्विबितमेव तस्य कामोन्मत्तस्य चित्रवध-

वार्ताप्रेषणेन श्रवणोत्सवोऽस्माकं विधेयः । सा च दुष्टकन्या

सहानुजेन कीर्तिसारेण निगडितचरणा चारके निरोद्धव्या' इति ।
तञ्

तच्
चाकर्ण्य 'प्रातरेव राजभवनद्वारे स च दुरात्मा कन्यान्तःपुर-

दूषक: संनिधापयितव्यः । चण्डपोतश्च मातङ्गपति [^१]रुपचितकल्प-
नोपपन्नस्तत्रैव समुपस्थापनीयः । कृतविवाहकृत्यश्चोत्थायाहमेव
तमनार्यशीलं तस्य हस्तिनः कृत्वा [^२]क्रीडेनकं तदधिरूढ एव
गत्वा [^३]शत्रुसौहाय्यकाय प्रत्यासीदतो राजन्यकस्य सकोशवाहन-
3
 
६.
 

 
पदचन्द्रिका ।
 

 
त्यात्मीयतया संबोधनम् । कन्यान्तःपुरदूषके दूषणोद्भावके । स्थविरो वृद्धः ।
'प्रवयाः स्थविरो वृद्धः' इत्यमरः । जरया विलुप्तौ मानावमानौ यस्यैवंविधं चित्तं
यस्येति । दुश्चरिता दुराचारा । 'प्रलापोऽनर्थकं वचः' इत्यमरः । किमित्याक्षेपे । सा
न्वे
चेति । सा दुष्टकन्या । अनुजेन कीर्तिसारेण सहेति । निगडितचरणा कृतपाद-
-
बन्धना । चारके बन्धनागारे । 'चारकं बन्धनालयः' इति वैजयन्ती । तञ्च्चेति ।
स च दुरात्मा कन्यान्तःपुरदूषकः संनिधापयितव्यः । संनिधौ स्थापनीय इत्यर्थः ।
चण्डपोतनामा मातङ्गपतिः करिवरः । 'मातङ्गवारणमहामृगसामयोनयः' इति हैमः ।
उपचिता याः कल्पनाः अलङ्कारादिरचनाः तैरुपपन्नो युक्तः । तत्रैव द्वारे । तमनार्यशीलं
दुष्टस्वभावं तस्य हस्तिनः क्रीडनकं खेलनं कृत्वेति । शत्रुसाहाय्यकाय वैरिसाहाय्या-
र्थम् । प्रत्यासीदतः समीपमागच्छतः । राजन्यकस्य क्षत्रियसमूहस्य । कोशो भाण्डा -
 

 
भूषणा ।
 

 
'अधिक्षेपैकगुह्ययोः' इति केशवः । कीर्तिसारेणेति । निरपराधिनोऽनुजस्य
बन्धनेच्छास्य विनाशहेतुः तत्फलं वनवासः । राज्यच्युतिरेवेति भावः । चारके ।
'चारकं बन्धनालयः' इति । उचितकल्पनोपपन्नो योग्यालंकारयुक्तः । 'कल्पना सज्जना

समे' इत्यमरः । क्रीडनं क्रीडासाधनम् । क्वचित् 'क्रीडनकम्' इति पाठः । शत्रु-
साहाय्यायेति । शत्रुसाहाय्यं सिंहवर्मसाहाय्यं कर्तुमित्यर्थः । 'क्रियार्थोपपद -
( २ । ३ । १४ ) इति चतुर्थी । प्रत्यासीदतः आसन्नमागतस्य । राजन्यकस्य राजसमूहस्य ।

 
लघुदीपिका ।
 

 
पैकगुह्ययोः' इति केशवः । चारके 'चारकं बन्धनालयः' । उचितकल्पनोपपन्नौ
नो योग्यालंकारयुक्तः । 'कल्पना सज्जना समे' । क्रीडनं क्रीडासाधनम् । सकोश-
पाठा० -

 
 
[^
]G. 'उचित', 'उपरचित',
[^
]G. 'क्रीडनम्'.
[^
]G. 'शत्रुसाहाय्याय.