2023-06-01 09:14:26 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
सकलसैन्यमण्डल : प्रचण्डप्रहरणशत [^१]भिन्नमर्मा सिंहवर्मा करिणः करिणमवप्लुत्यातिमानुषप्राणबलेन चण्डवर्मणा । स च तद्दुहितर्यम्बालिकायामबलारत्नसमाख्यातायामतिमात्राभिलाष: प्राणैरेनं न व्ययूयुजत् । अपि त्वनीनयदपनीताशेष- [^२]शल्यमकल्यसंधो [^३]बन्धनम् । अजीगणच्च गणकसंघै: 'अद्यैव क्षपावसाने विवाहनीया राजदुहिता' इति । कृतकौतुकमङ्गले च तस्मिन्नेकपिङ्गाचलात्प्रतिनिवृत्त्यैणजङ्घो नाम जङ्घाकरिकः प्रभवतो दर्पसारस्य प्रतिसंदेशमावेदयत् – 'अयि मूढ, किमस्ति कन्यान्तःपुरदूषकेऽपि कश्चि-
पदचन्द्रिका ।
स चेति चण्डवर्मा । तद्दुहितरि सिंहवर्मकन्यायाम् । अम्बालिकेति नाम्ना प्रसिद्धायाम् । रत्नत्वेनोत्कृष्टत्वेन । अतिमात्रमत्यन्तमभिलाषो यस्येति तथा । एनं सिंहवर्माणम् । न व्ययूयुजदिति । 'युजिर् योगे' । हेतुमण्णिजन्ताल्लुङि रूपम् । अपि त्विति । अनीनयत् । 'णीञ् प्रापणे' णिजन्ताल्लुङि प्रथमपुरुषे परस्मैपदैकवचनम् । अकल्या अचिन्त्या संधा प्रतिज्ञा यस्येति स तथा । बन्धनं कारागृहम् ।
अजीगणत् । 'गण संख्याने' । गणकसंघैर्ज्यौतिषिकसमूहै: । 'दैवज्ञगणकादेशिज्ञानि' इति हैमः । क्षपावसाने प्रातःकाले । कृतकौतुकमङ्गले बद्धकङ्कणबन्धे । तस्मिश्चण्डवर्मणि । एकपिङ्गस्य कुबेरस्य । 'यक्षैकपिङ्गैलविल- ' इत्यमरः । अचलात्प-
र्वतात् । एणजङ्घो नाम जङ्घाकारकः । शीघ्रगामीत्यर्थः । 'जङ्घाकरिकजाङ्घिकौ' इत्यमरः । 'जङ्घालोऽतिजवो जङ्घारिको जाङ्घिको जवी' इति हैमः । दर्पसारस्य प्रतिसंदेशं प्रत्युत्तरम् । आवेदयत् । कथयामासेत्यर्थः । अयीति कोमलामन्त्रणे । मूढे-
भूषणा ।
र्वेणान्वितम् । न व्ययूयुजन्न पृथक्चकार । युजेर्णिजन्ताच्चङि लुङ् । अपि तूत्तरकृत्योक्तौ अकल्यसंधोऽचिन्त्यप्रतिज्ञः । सत्यसंध इति यावत् । अजीगणद्गणनं कारयति स्म । गणेर्णिचि लुङ् । एकपिङ्गः कुबेरः । 'यक्षैकपिङ्गैलविल-' इत्यमरः । जङ्घाकरिकः । 'जङ्घाकारिकजाङ्घिकौ' इत्यमरः । 'हलकारा' इति प्रसिद्धः ।
प्रभवतः प्रभो राज्ञः । 'प्रत्यये लक्षणे हेतौ क्रियायास्तु शतुर्वचः' । अयि ।
लघुदीपिका ।
तूत्तरकृत्योक्तौ । अकल्यसंधोऽचिन्त्यप्रतिज्ञः अजीगणद्गणनं कारयति स्म । गणेर्णिचि लुङ् । जङ्घाकरिकः । 'जङ्घाकरिकजाङ्घि कौ' । प्रभवतः प्रभोः । 'प्रत्यये लक्षणे हेतौ क्रियायास्तु शतुर्वचः' इति वचनादव्यये शतृ । अयि । अधिक्षे-
[^१]G. 'भिन्नवर्मा'.
[^२]G. 'अकल्पसंध:', 'अकल्प्यसंध:'.
[^३]G. 'बन्धनगृहम्'.