2023-05-18 02:10:08 by ambuda-bot
This page has not been fully proofread.
उच्छ्वासः ] पदचन्द्रिका - भूषणा- लघुदीपिकासहितम् ।
साराय संदिश्य सर्वमेव पुष्पोद्भवकुटुम्बकं सर्वस्वहरणपूर्वकं
सद्य एव बन्धने क्षिप्त्वा कृत्वा च राजवाहनं राजकेसरिकिशोर-
कमिव दारुपञ्जरनिवद्धं मूर्धजजालविलीनचूडामणिप्रभाववि-
क्षिप्तक्षुत्पिपासादिखेदं च तमवधूतदुहितृप्रार्थनस्याङ्गराजस्योद्ध-
रणायाङ्गानभियास्यन्ननन्यविश्वासान्निनाय । रुरोध च बलभर-
दत्तकम्पञ्चम्पाम् । चम्पेश्वरोऽपि सिंहवर्मा सिंह इवासयविक्रमः
प्राकारं भेदयित्वा महता बलसमुदायेन निर्गत्य स्वप्रहितदूतत्राता-
हूतानां साहाय्यदानायातिसत्वरमापततां धरापतीनामचिरकाल-
भाविन्यपि संनिधावदत्तापेक्षः साक्षादिवावलेपो वपुष्मानक्षमा-
परीतः प्रतिबलं प्रतिजग्राह । जगृहे च महति संपराये क्षीण -
६५
पदचन्द्रिका ।
।
।
स्यां कुर्वते । बन्धने कारागृहे । केसरिणः सिंहस्य । किशोरकमिव बालकमिव ।
दारुपञ्जरे काष्टपञ्जरे । मूर्धजजाले केशसमूहे विलीनो यश्चूडामणिर्नमुचिकन्ययादत्त-
स्तस्य प्रभावेन विक्षिप्तो दूरीकृतः क्षुत्पिपासादिखेदो यस्येति तम् । अवधूतेति ।
अवधूता तिरस्कृता दुहितुः कन्यायाः प्रार्थना येनेति तस्याभराजस्योद्धरणायो-
न्मूलनायाजान्देशानभियास्यन्गच्छन्ननन्यविश्वासादन्यविश्वासाभावान्निनायेत्यन्वयः
रुरोधेति । 'रुधिर् आवरणे । चम्पेश्वर इति । प्राकारं सालम् ।
'प्राकारो वरण: साल: ' इत्यमरः । दूतव्रातः दूतसमूहः । न दत्तापेक्षा
येनेति । अवलेपो गर्वः । संपराये युद्धे । 'संपरायः समीकं सांपरायिकम्'
इति हैमः । क्षीणं सकलं सैन्यमण्डलं सेनासमूहो यस्येति तथा । मानुषमति-
क्रम्य वर्तत इत्यतिमानुषं प्राणबलं यस्येति । जगृहे । 'ग्रह उपादाने' ।
भूषणा ।
जयन्ती । किशोरो बालः । चूडामणिर्नमुचिकन्यया दत्तः । द्वितीयोच्छ्वासारमें
स्पष्टं भविष्यति । उद्धरणायोन्मूलनाय । निनाय । सह्रैवेति शेषः । सहैव निनायेति
संबन्धः । दूतव्रातो दूतसमूहः । 'व्रातवारसंघातसंचयाः' इत्यमरः । अदत्तापे-
क्षोऽकृतापेक्षः । साक्षात् । 'साक्षात्प्रत्यक्षतुल्ययोः' इत्यमरः । अवलेपो गर्वः ।
प्रतिबलं शत्रुबलम् । संपरायः सङ्ग्रामः । चण्डवर्मणेति । जगृह इति पू-
लघुदीपिका ।
कैलासः । संदिश्य संदेशं कृत्वा । 'संदेशः प्रहितं वचः' इति वैजयन्ती । कि-
शोरो बालः । व्रातः समूहः । 'समूहव्रातसंचयाः' । अदत्तापेक्षोऽकृतापेक्षः ।
'साक्षात्प्रत्यक्षतुल्ययोः' । व्ययूयुजत् पृथक्चकार । युजेर्प्यन्ताच्चडि लुङ् । 'अर्पि
पाठा०-१ 'किशोर'.