2023-05-31 18:02:29 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
हंसगामिनि, हंसकथायाः । सहस्व वासु, मासद्वयम्' इति प्राण-
परित्यागरागिणीं प्राणसमां समाश्वास्यारिवश्यतामयासीत् ।
अथ विदितवार्तावार्तौ महादेवीमालवेन्द्रौ जामातरमाकारपक्ष-
पातिनावात्मपरित्यागोपन्यासेनारिणा जिघांस्यमानं ररक्षतुः r
न शेकतुस्तु तमप्रभुत्वादुत्तारयितुमापदः । स किल चण्डशील-
श्चण्डवर्मा सर्वमिदमुदन्तजातं राजराजगिरौ तपस्यते दर्प-
पदचन्द्रिका ।
दैवीमेवादृष्टकृतामेव । हंसगामिनीति नायिकासंबोधनम् । तस्या हंसकथाया इति 'अधीगर्थदयेशां-' ( २।३।५२ ) इति कर्मणि षष्ठी । वासु बाले । अरिवश्यताममित्राधीनताम् । अयासीत् । 'या प्रापणे' इत्यस्य रूपम् ॥
अथेति । विदितवार्तौ ज्ञातवृत्तान्तौ । आर्तौ पीडितौ । आत्मपरित्यागस्य देहपरित्यागस्योपन्यासेन । वचनेनेत्यर्थः । 'उपन्यासस्तु वाङ्मुखम्' इत्यमरः । आकारेण सौन्दर्येण पक्षपातिनाविति महादेवीमालवेन्द्रयोर्विशेषणम् । न
शेकतुरिति । 'शक्ऌ शकौक्तौ ' लिटि परस्मैपदे रूपम् । तं राजपुत्रम् । अप्रभुत्वादसामर्थ्यात् । स किलेति । उदन्तजातं वृत्तान्तजातम् । 'वार्ताप्रवृत्तिवृत्तान्त उदन्तः स्यात्' इत्यमरः । राजराजगिरौ कुबेरपर्वते । तपस्यते तप-
भूषणा ।
दयेशां कर्मणि' (२।३।५२ ) इति कर्मणि षष्ठी । पूर्वजन्मनि सरसि क्रीडतानेन कोऽपि राजहंसो द्विमुहूर्तं मृणालेन बद्धस्तेनासौ शप्तः - द्विमासं तवापि पादबन्धनं भविष्यति । ततः सम्राट्त्वमेष्यसि' इति कथा । वासु बाले । 'बाला स्याद्वासू: ' इत्यमरः । यत्त्वस्य नाट्य एव प्रयोग उचितो नाट्यवर्गपाठात्तन्न । तत्रान्ययोगव्यवच्छेदकत्वात् नाट्य एतेषामेव प्रयोगो नान्येषामिति । अत एव काव्येऽपि
नाट्यवर्गस्थान्देव्यादिशब्दान्प्रायुङ्क्त कालिदासः - 'ब्राह्मे मुहूर्ते किल तस्य देवी कुमारकल्पं सुषुवे कुमारम्' इति । विदितवार्तौ ज्ञातवृत्तान्तौ । 'वार्ता प्रवृत्तिर्वृत्तान्तः उदन्तः स्यात्' इत्यमरः । आर्तौ दुःखितौ । मालवेन्द्रो मानसारः । आकारपक्षपातिनौ सौन्दर्यात्तत्पक्ष स्थितौ । जिघांस्यमानं हन्तुमिष्यमाणम् । चण्डशील उग्रस्वभावः । 'चण्डः क्रूरातिकोपयोः' इति । उदन्तो वृत्तान्तः । राजराजगिरिः कैलासः संदिश्य संदेशं कृत्वा । 'संदेशः प्रहितं वचः' इति वै-
लघुदीपिका ।
थायाः स्मर। 'अधीगर्थदयेशां कर्मणि-' इति कर्मणि षष्ठी । वासु बाले । 'अथ बाला स्याद्वासू:' । विदितवार्तौ ज्ञातवृत्तान्तौ । 'वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यात्' । आर्तौ दुःखितौ । जिघांस्यमानं हन्तुमिष्यमाणम् । चण्डशील उग्रस्वभावः । 'चण्डः क्रूरातिकोपयोः' । उदन्तजातमुदन्तवृन्दम् । राजराजगिरिः
परित्यागरागिणीं प्राणसमां समाश्वास्यारिवश्यतामयासीत् ।
अथ विदितवार्तावार्तौ महादेवीमालवेन्द्रौ जामातरमाकारपक्ष-
पातिनावात्मपरित्यागोपन्यासेनारिणा जिघांस्यमानं ररक्षतुः r
न शेकतुस्तु तमप्रभुत्वादुत्तारयितुमापदः । स किल चण्डशील-
श्चण्डवर्मा सर्वमिदमुदन्तजातं राजराजगिरौ तपस्यते दर्प-
पदचन्द्रिका ।
दैवीमेवादृष्टकृतामेव । हंसगामिनीति नायिकासंबोधनम् । तस्या हंसकथाया इति 'अधीगर्थदयेशां-' ( २।३।५२ ) इति कर्मणि षष्ठी । वासु बाले । अरिवश्यताममित्राधीनताम् । अयासीत् । 'या प्रापणे' इत्यस्य रूपम् ॥
अथेति । विदितवार्तौ ज्ञातवृत्तान्तौ । आर्तौ पीडितौ । आत्मपरित्यागस्य देहपरित्यागस्योपन्यासेन । वचनेनेत्यर्थः । 'उपन्यासस्तु वाङ्मुखम्' इत्यमरः । आकारेण सौन्दर्येण पक्षपातिनाविति महादेवीमालवेन्द्रयोर्विशेषणम् । न
शेकतुरिति । 'शक्ऌ श