2023-05-31 17:46:57 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

पाटवावर्जित [^१]मूढपौरजनमिथ्यारोपितवितथदेवतानुभाव: कपटधर्मकञ्चुको निगूढपापशीलश्चपलो ब्राह्मणब्रुवः । कथमिवैनमनुरक्ता मादृशेष्वपि पुरुषसिंहेषु सावमाना पापेयमवन्तिसुन्दरी । पश्यतु
पतिमद्यैव शूलावतंसितमियमनार्यशीला कुलपांसनी' इति निर्भर्त्स-
यन्मीभीषणभ्रुकुटिदूषितललाट: काल इव काललोहदण्डकर्कशेन
बाहुदण्डेनावलम्ब्य हस्ताम्बुजे रेखाम्बुजरथाङ्गलाञ्छने राज-
पुत्रं सरभसमाचकर्ष । स तु स्वभावधीरः सर्वपौरुषातिभूमिः
सहिष्णुतैकप्रतिक्रियां दैवीमेव तामापदमवधार्य 'स्मर तस्या
 
पदचन्द्रिका ।
 
वर्जितो वशीकृतो मूढो यः पौरजनस्तेन मिथ्यारोपितो वितथो निष्फलो देवतानुभावो यस्मिन्निति । कपटमेव धर्मकञ्चुकं यस्येति । निगूढं गुप्तम् । ब्राह्मणब्रुवं आत्मानं ब्राह्मणं ब्रूतेऽसौ तथा । सावमाना हेलनापरा । 'पापाणके कुत्सितैः' इति साधुः । शूलावतंसितं शूलारोपितम् । कुलपांसनी कुलदूषणी । भ्रुकुटिर्भ्रू: । 'भ्रुकुटिर्भ्रूकुटिः स्त्रियाम्' इत्यमरः । काल इव यम इव । 'कालो दण्डधरः श्राद्धदेवः ' इत्यमरः । कालं श्यामायसम् । रेखारूपाण्यम्बुजानि रथाङ्गानि चक्राणि लाञ्छनानि यस्मिन्निति । सरभसं सवेगम् । स त्विति । सर्वपौरुषाणां पुरुषार्थानाम-
तिभूमिरधिष्ठानम् । सहिष्णुतैव सहनशीलतैवैका प्रतिक्रिया प्रतीकारो यस्या इति ।
 
भूषणा ।
 
मातिदर्पात्सिंहवर्मा तां नेतुमैच्छत् । ततो रात्रौ तत्संकेतस्थानस्थं तं जघान पुष्पोद्भवः । आवर्जितं स्वायत्तीकृतम् । वशीकृतमिति यावत् । पापशील: पापस्वभावः । 'शीलं स्वभावे सद्वृत्ते' इत्यमरः । ब्राह्मणब्रुवो ब्राह्मणाधमः । 'ब्रुवो हीनः पदात्परे । जातिमात्रोपजीवे तु कथ्यते ब्राह्मणब्रुवः' इति वैजयन्ती ।
'मादृशेषु पुरुषसिंहेषु सावमाना' इत्यनेन तस्यां स्वाभिलाषध्वनिः । मातुलकन्यापरिणयनानुरोधेनाभिलाषः वेदविरुद्धत्वात्त्वार्यैस्त्यक्तम् । एतदनार्याचरणमाशुपञ्चताहेतुः । शूलस्यावतंसवदाचरितम् । शूलारूढमित्यर्थः । कुलपांसनी कुलदूषिका । 'पांसनः कुलदूषकः' इति वैजयन्ती । भ्रुकुटिर्भुभ्रुवः कुटिः कौटिल्यम् ।
अतिभूमिरधिष्ठानम् । सहिष्णुता सहनशीलता । हंसकथायाः स्मर । 'अधीगर्थ-
 
लघुदीपिका ।
 
भावः । 'शीलं स्वभावे सद्वृत्ते' इति कोशः । ब्राह्मणब्रुवो ब्राह्मणाधमः 'ब्रुवो हीनःपदात्परे । जातिमात्रोपजीवे तु कथ्यते ब्राह्मणब्रुवः' इति वैजयन्ती । शूलावतंसितं शूलबद्धम् । 'तसि बन्धने' इति धातुः । कुलपांसनी कुलदूषिका । 'पांसन:
कुलदूषकः' इति वैजयन्ती । भ्रुकुटिर्ललाटशिरोन्नतिः । 'ललाटे त्रिपताकायां भ्रुकुटि: सा शिरोन्नतिः' इति वैजयन्ती । सहिष्णुता सहनशीलता । हंसक-
 
[^१]G. 'पौरजनाध्यारोपित'