This page has not been fully proofread.

उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् ।
 
६३
 
पाटवावर्जितमूढैपौरजन मिथ्यारोपितवितथदेवतानुभाव: कपटधर्म-
कञ्चुको निगूढपापशीलश्चपलो ब्राह्मणब्रुवः । कथमिवैनमनुरक्ता
माहशेष्वपि पुरुषसिंहेषु सावमाना पापेयमवन्तिसुन्दरी । पश्यतु
पतिमद्यैव शूलावतंसितमियमनार्यशीला कुलपांसनी' इति निर्भर्त्स -
यन्मीषणभ्रुकुटिदूषितललाट: काल इव काललोहदण्डकर्कशेन
बाहुदण्डेनावलम्ब्य हस्ताम्बुजे रेखाम्बुजरथाङ्गलाञ्छने राज-
पुत्रं सरभसमाचकर्ष । स तु स्वभावधीरः सर्वपौरुषातिभूमिः
सहिष्णुतैकप्रतिक्रियां दैवीमेव तामापदमवधार्य 'स्मर तस्या
पदचन्द्रिका ।
 
वर्जितो वशीकृतो मूढो यः पौरजनस्तेन मिथ्यारोपितो वितथो निष्फलो देवतानु-
भावो यस्मिन्निति । कपटमेव धर्मकचुकं यस्येति । निगूढं गुप्तम् । ब्राह्मणब्रुव
आत्मानं ब्राह्मणं ब्रूतेऽसौ तथा । सावमाना हेलनापरा । 'पापाणके कुत्सितैः' इति
साधुः । शूलावतंसितं शूलारोपितम् । कुलपांसनी कुलदूषणी । अकुटिर्भ्रः । 'भ्रुकु
टिकुटिः स्त्रियाम्' इत्यमरः । काल इव यम इव । 'कालो दण्डधरः श्राद्धदेवः '
इत्यमरः । कालं श्यामायसम् । रेखारूपाण्यम्बुजानि रथाङ्गानि चक्राणि लाग्छ-
नानि यस्मिन्निति । सरभसं सवेगम् । स त्विति । सर्वपौरुषाणां पुरुषार्थानाम-
तिभूमिरधिष्ठानम् । सहिष्णुतैव सहनशीलतैवैका प्रतिक्रिया प्रतीकारो यस्या इति ।
भूषणा ।
 
मातिदर्पात्सिंहवर्मा तां नेतुमैच्छत् । ततो रात्रौ तत्संकेतस्थानस्थं तं जघान
पुष्पोद्भवः । आवर्जितं स्वायत्तीकृतम् । वशीकृतमिति यावत् । पापशील: पाप-
स्वभावः । 'शीलं स्वभावे सद्वृत्ते' इत्यमरः । ब्राह्मणब्रुवो ब्राह्मणाधमः । 'ब्रुवो
हीनः पदात्परे । जातिमात्रोपजीवे तु कथ्यते ब्राह्मणब्रुवः' इति वैजयन्ती ।
'मादृशेषु पुरुषसिंहेषु सावमाना' इत्यनेन तस्यां खाभिलाषध्वनिः । मातुलक-
न्यापरिणयनानुरोधेनाभिलाषः । वेदविरुद्धत्वात्त्वार्यैस्त्यक्तम् । एतदनार्याचरणमा-
शुपञ्चताहेतुः । शूलस्यावतंसवदाचरितम् । शूलारूढमित्यर्थः । कुलपांसनी कुल-
दूषिका । 'पांसनः कुलदूषकः' इति वैजयन्ती । भ्रुकुटिर्भुवः कुटिः कौटिल्यम् ।
अतिभूमिरधिष्ठानम् । सहिष्णुता सहनशीलता । हंसकथायाः स्मर । 'अधीगर्थ-
लघुदीपिका ।
 
भावः । 'शीलं खभावे सद्वृत्ते इति कोशः । ब्राह्मणब्रुवो ब्राह्मणाधमः 'ब्रुवो हीनः
पदात्परे । जातिमात्रोपजीवे तु कथ्यते ब्राह्मणब्रुवः' इति वैजयन्ती । शूलावतंसितं
शूलबद्धम् । 'तसि बन्धने' इति धातुः । कुलपांसनी कुलदूषिका । 'पांसन:
कुलदूषकः' इति वैजयन्ती । भ्रुकुटिर्ललाटशिरोन्नतिः । 'ललाटे त्रिपताकायां
अकुटि: सा शिरोन्नतिः' इति वैजयन्ती । सहिष्णुता सहनशीलता । हंसक-
पाठा०-१ 'पौरजनाध्यारोपित'