2023-05-31 17:27:55 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

दशकुमारचरितम् ।
 
[ प्रथमः
 
कपोलतलमाकुलीबभूव
'किं किम्' इति
दहशुश्च तदवस्थं
 
। तुमुले चास्मिन्समयेऽनियन्त्रितप्रवेशाः

किं किम्' इति
सहसोपसृत्य विविशुरन्तर्वंशिकपुरुषाः

ददृशुश्च तदवस्थं [^१]
राजकुमारम् । तदनुभावनिरुद्धनिग्रहे-

च्छास्तु सद्य एव ते तमर्थं चण्डवर्मणे निवेदयांचक्रुः । सोऽपि

कोपादागत्य निर्दहन्निव दहनगर्भया दृशा [^२]निशाम्योत्पन्नप्रत्य-

भिज्ञः 'कथं स एवैष मदनुजमरणनिमित्तभूताया: पापाया बाल-

चन्द्रिकायाः पत्युरत्यभिनिविष्टवित्तदर्पस्य वैदेशिकवणिक्पुत्रस्य

पुष्पोद्भवस्य मित्रं रूपमत्तः कलामिभिमानी नैकविधविप्रलम्भोपाय-

 
पदचन्द्रिका ।
 
६२
 

 
अवगुण्ठितं वेष्टितम् । तुमुले संकुले । अनियन्त्रितप्रवेशा अनिवारितप्रवेशाः ।
अन्तर्व
अन्तर्वंशिकाः । 'अन्तः पुरे त्वधिकृतः स्यादन्तर्वंशिको जनः' इत्यमरः । तदव-
स्थम् । निगडितपादमित्यर्थः । ददृशुः । 'दृशिर् प्रेक्षणे । लिटि प्रथमे परस्मैपद-
हुवचनम् । तस्य राजकुमारस्यानुभावेन सामर्थ्येन । 'अनुभावः प्रभावे च निश्चये

भावसूचके' इति वैजयन्ती । निरुद्धा निग्रहेच्छा येषां ते । अन्तर्वंशिका
इत्यर्थः । निवेदयांचक्रुः । सोऽपीति । सोऽपि । चण्डवर्मेत्यर्थः । दहनगर्भ-
याग्निगर्भया । निशाम्य । 'शम लक्ष आलोचने' । अस्मात्खास्वार्थण्यन्तात्
क्त्वाप्रत्यये समासे ल्यप् । दृष्ट्वेत्यर्थः । अत्यभिनिविष्टः अत्यारूढः । नैकविधा
अनेकविधा ये विप्रलम्भोपायाः प्रतारणयुक्तयस्तेषु यत्पाटवं पटोर्भावस्तेना-

 
भूषणा ।
 

 
विप्रविध्यमानं ताङ्ड्यमानम् । तुमुले संकुले । रणसंकुले शक्तोऽपि रणान्यसंकुले
भाक्तः । 'तुमुलं रणसंकुले' इत्यमरः । अयन्त्रितोऽनिवारितः । अन्तर्वंशिकपु-
रुषाः । 'अन्तः पुरे त्वधिकृतः स्यादन्तर्वंशिको जनः' इत्यमरः । राजपुत्रं राज-
चा
वाहनम् । अनुभावः प्रभावः । 'अनुभावः प्रभावे च निश्चये भावसूचके' इति

वैजयन्ती । निग्रहो बन्धनम् । चण्डवर्मणे दर्पसारामात्याय । कोपात् । हेतौ
पञ्चमी । निशाम्यालोक्य । 'शम आलोचने' । प्रत्यभिज्ञा विस्मृतज्ञानम् ।
मदनुजः सिंहवर्मा । अशेङ्गेश्वरादन्य एवायम् । एवमत्र कथा - 'अवन्तिसुन्दर्या
सखी बालचन्द्रिका । तां क्वाप्युत्सवसमाजे ददर्श सिंहवर्मा । भ्रातुरधिकारात्का-

 
लघुदीपिका ।
 

 
'समयाः शपथाचारकालसिद्धान्तसंविदः' । विप्रविध्यमानं ताड्यमानम् । तुमुले
संकुले । अनियन्त्रितोऽनिवारितः । अन्तर्वंशिकः । 'अन्तःपुरे त्वधिकृतः
स्यादन्तर्वंशिको जनः' । अनुभावः प्रभावः । 'अनुभावः प्रभावे च निश्चये
भावसूचके' इति वैजयन्ती । निग्रहोऽभिभवः । कोपात्कोपं विधाय । ल्यब्लोपे

पञ्चमी । निशाम्यालोक्य । प्रत्यभिज्ञा विस्मृतज्ञानम् । पापशील: पापस्व-
पाठा० -

 
[^
]G. 'राजपुत्रम्.
[^
]G. 'निशम्य'.